________________
[ है० ४.१.६०.] अष्टमः सर्गः।
६२७ क्ष्मा रिरावयिषता कटकेनारील्लिलावयिषतीह सहेलम् । को विभावयिषति स न सख्यं कः शुशावयिषति स्म न भक्तिम्
॥६६॥ ६६. कः सख्यं चेदिना सह मैत्री न बिभावयिषति स्म भावयितुमिच्छति स्म। सर्वोपि मृत्युभयात्सख्यं चिकीर्षति स्मेत्यर्थः । तथा को भक्तिं न शुशावयिषति स्म नाविवर्धयिषत् । क सति । इह चेदौ । किंभूते । मां रिरावयिषता पादाघातैः शब्दायमानां प्रयोक्तुमिच्छता कटकेन का सहेलं लीलयैारील्लिलावयिषति छेदयितुमिच्छति । एतेन यात्रारम्भिण्यप्यस्मिन्सर्वेपि नृपा वशीभूता इत्युक्तम् ॥ अनेनिजुः । अवेविजुः। अवेविषुः । अत्र "निजां शित्येत्” [५७] इति पूर्वस्यैत् ॥ पिपर्ति । इयर्ति । बिभर्ति । मिमीते । जिहीते । अत्र "पृभृ" [५८ ] इत्यादिना पूर्वस्य-इः॥ मिमासति । इत्यत्र "सैन्यस्य" [ ५९] इति-इः ॥
जिजावयिषुः । संयियविषुः । रिरावयिषता । लिलावयिषति। बिभावयिषति। इत्यत्र “ओर्जान्तस्था” [ ६०] इत्यादिना-इः ॥ ननु ण्यन्तानां वृघ्यावादेशयोः कृतयोर्द्वित्वे सति पूर्वस्योकारान्तता न संभवति । तत्र "सन्यस्य" [५९ ] इत्यनेनैव सिद्धे किं गुरुणा सूत्रेण । एतावत्तु विधेयम् । ओः पयेवर्ण इति । पिपविषते । यियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यात् । सत्यम् । णौ यत्कृतं कार्य तत्सर्व स्थानिवदिति न्यायज्ञापनार्थम् । तेन शुशावयिषतीत्यादि सिद्धम् ॥ - १ ए शुभाव. .१ सी डी था भक्तिं को न. २ ए शुभावायि'. ३ ए बी त् । ई. ४ सी पादघा. ५ ए हे लील'. ६ ए वारीलि. ७ सी डी यितु. ८ ए विषुः । अ. ९ए जो सत्ये. बी जां शेत्ये. १० बी स्यैतत्. ११ वी सनस्य. १२ सी यिषु । सं. १३ ए °त्र ऊर्जा. १४ सी ततत्स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org