________________
६२२
४
व्याश्रयमहाकाव्ये
[ भीमराजः] अभ्यचिच्छिषति । इत्यत्र "व्यञ्जनस्य' [ ४४ ] इत्यादिना पूर्वस्य व्यअनस्यानादेल ॥ तिष्ठेव । इत्यत्र "अघोषे शिटः' [४५] इति शिटो लुक् ॥ छीच्चकार । झुडुवे । अत्र "कङश्चञ्" [ ४६ ] इति चौ ॥ चोकवीषि किमु चीनपते कोकूयसे किमिति बर्बरराज । कोकवीषि किमु तेजनृपेत्थं वावदीति नृपतीनुवतोसौ ॥ ५८ ॥
५८. यदा नृपास्तं प्रसादनाय स्तुवन्ति तदासौ लक्ष्म्यादिमदेनावहेलया रे चीनबर्बरतेजदेशाधिपाः किमिति पूर्वारुथेति निर्भर्त्सयतीत्यर्थः । वृत्तद्वयेनामुनास्यानेके नृपा दासभूताः सन्तीति दुःसाध्यत्वोक्तिः ॥
बेभिदीति स जहेति वनीवञ्चीति भेद्यपरिहेयसमर्थान् । जात्वनाकुलमतिर्न सनीस्रंसीति चोन्नतमनोरथशैलात् ॥ ५९॥
५९. स सिन्धुपतिर्भेद्यपरिहेयसमर्थान् भेद्यानुपजापाऱ्यान्नृपान्बेभिदीत्युभयवेतननरव्यापारणादिनात्यर्थमुपजपति । तथा परिहेयान्महादुर्गाद्याश्रितत्वेन बह्वायाससाध्यत्वात्साधनेप्यल्पंफलत्वात्परित्याज्यान्नृपाञ्जहेत्यत्यर्थं त्यजति । तथा समर्थानधिकबलान्नृपान्वनीवचीति कुटिलं याति । अन्यदिगभिमुखं यात्राकरणेन समन्विश्वास्य तेष्वज्ञायमानश्छलेन पततीत्यर्थः । अत एव शत्रुभयाभावा
१ ए बी नीसंस्त्रीति.
१ डी च्छिष्यति. २ डी क् न ॥. ३ ई व । टिष्टेव । इ. ४ सीधे शटः. ५ डी लुक्न ॥. ६ ए चडौ ॥. ७ ए कुथे. ८ बी बह्वया . ९ बी ल्पत्वा. १० ए त्याजान्न. ११ ए पाम्वनी. १२ बी नच्छले'. सी डी नस्थले .
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org