________________
[ है० ४.१.४३.] अष्टमः सर्गः।
६२१ संग्रहार्थ पूर्वस्येति योः समानाधिकरणं विशेषणं तेनेकारोकारमात्रस्यैव पूर्वस्येयुवौ ॥ अस्व इति किम् । ईषुः ॥ जहार। इत्यत्र "ऋतोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र “हस्वः" [३९] इति हैस्वः ॥ परिजगुः । जहार । इत्यत्र “गहोर्जः" [ ४० ] इति जः ॥ अदिद्युतन् । इत्यत्र "द्युतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय” [४२ ] इत्यादिनाद्यतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीञ्चकार स यदा परिटिष्ठेवाथ जीव बुडुवे नृपचक्रम् ॥ ५७॥
५७. स सिन्धुपतिरुद्धतत्वात्सामनि सान्त्वनोपाये नोऋतिच्छिषति । न जिगमिषति। ऋच्छ गतावप्यन्ये। तथा सामन्येव विषये तिष्ठेवावज्ञया थूचकार । तर्हि व जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्यूचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीच्चकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव जुडुवे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः। यद्वात्रेति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः॥
तिष्ठेव टिष्ठेव । इत्यत्र "तिर्वा ष्ठिवः” [४३ ] इति वा तिः ॥ केचित्तु "स्वरेभ्यः" [ १.३.३० ] इति द्विरुक्तस्य छस्य द्वित्वे सति पूर्वस्य त्यादेशमिच्छन्ति । तन्मते ऋतिच्छिषति इति स्यात् ॥
१ बहुषु पुस्तकेषु ष्ठिव् इति धातो रूपाणां स्थानेषु त् इत्यत्र द इति दृश्यते। ..
१ डी त्रस्ये'. २ सी ति रितो'. ३ ए हस्व ॥. ४ सी डी °च्छत् ग. ५ ए येभ्यचि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org