SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ६२० व्याश्रयमहाकाव्ये [भीमराजः] यस्तवारिररियति तमेषोर्यति तांस्त्वदुदयं न य ईषुः। ताञ्जहार विदुधाव चखानादिद्युतन्परिजगुर्य इह त्वाम् ॥५६॥ ५६. यस्तवारिस्तमेष सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरिं मित्रीकरोतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नतिं स्वविनाशाशङ्कया नेषुस्तानयति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारेणालुण्टयद्विदुधावेतस्ततो व्यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदेशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ॥ देहि । अवधेहि । इत्यत्र “हौ दः" [ ३१ ] इत्येन्न चायं द्विः ॥ न च द्विरित्युक्तेः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अत्र "देर्दिगिः” [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यनें “के पिबः पीप्य्” [३३] इति पीप्य् ॥ प्रजिघाय । जिघांसु। इत्यत्र “अछे हि" [३४] इत्यादिना मूलहस्य घः॥ अङ इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जेर्गिः" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीषति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः ॥ इयेष । उवोष । इयति । इत्यत्र “पूर्वस्य” [ ३७] इत्यादिना-इयुवौ ॥ अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे "रिरौ च लुपि" [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एके त्वत्रेयं नेच्छन्ति । अर्यति । तन्मत १ए रियर्त्य . २ ए द्विगुंधा'. ३ ई सी व्यक्षेप. ४ सी त्र दे पि'. ५ ए पीप्य ॥. ६ बी प्रतिजि. ७डी ना पूर्वह. ८ बी कीर्षु नि'. ९ सी वा दिः ।। इ. १० सी त्याका. ११ बी चेयभा. १२ डी यत्ति । त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy