________________
[ है० ४.१.२९.] अष्टमः सर्गः । स्रजः पुष्पमालो ग्रेन्थिथ गुम्फितवान् । श्वेतत्वात्सौरभ्याच पुष्पमालातुल्या: कीर्तीदिशि दिशि प्रसारितवानित्यर्थः । तथा कीर्तिभिर्दिश्वाशु तमिस्रमन्धकारं शशसिथ व्यनाशयो दिशो निर्मलीचकर्थेत्यर्थः । तथा कीर्तिभिर्दूरगान्दूरदेशस्थाञ्जनान्पुरस्तादिवास्थितानिव वेवणिथावोच इव । निकटस्थैरिव दूरस्थैरपि त्वं गीतकीर्तिरित्यर्थः ॥ त्वद्यशः शशसतुर्दददाते चायशः शशरतुश्च गुणांस्ते । ईग्रयां ववणतुस्त्वयि दोषानिसन्धुचेदिनृपती इह दृप्तौ ॥५२॥
५२. हे राजन्निह पृथ्व्यां सिन्धुचेदिनृपती सिन्धुदेशचेदिदेशराजौ दृप्तौ दर्पिष्ठौ सन्तावीर्यया त्वत्संपत्तौ चेतसो व्यारोषेण त्वद्यशः शशंसतुर्जघ्नतुः । ते तवायशोवर्णवादं दददाते च । तथा ते गुणाञ् शशरतुश्च । तथा त्वयि विषये दोषान्ववणतुश्च । चोत्रापि योज्यः॥
श्रेथुः शश्रन्थुः । श्रेथिथ शश्रन्थिथ । ग्रेथुः जग्रन्थुः । ग्रेथिथ जग्रन्थिथ । इत्यत्र “वा श्रन्थ" [२७ ] इत्यादिना वैत् । एतत्संनियोगे नस्य लुग्न च द्विः ।। देभुः । अत्र "दम्भः" [२८ ] इत्येन्नस्य लुग्न च द्विः ॥ देभिथ ददम्भिथ । इत्यत्र “थे वा” [ २९ ] इति वैत्तत्संनियोगे च नस्य लुम्न च द्विः ॥ अन्ये तु श्रन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति । नलोपं त्ववित्परोक्षायां नित्यमेव । तेन श्रेथुः । ग्रेथुः । देभुः ॥ नलोपाभावे
१
डी ईध्यया.
१बी पुष्फमा. २ सी °ला ग्रन्थि . ३ सी ई शि प्र. ४ ए बी सी डी मिश्रम'. ५ ए रं शिशसि. ६ ए °चकार्थे. ७ सी र्ति भूर्दूरदे. ८ ए प्रस्थादि. ९ ए वणि?. १० ए शसःतु. ११ ई श्च च यो' १२ ए थिथः ज°. १३ डी मेवैत्व. १४ डी विति परो'. १५ सी व श्रे. १६ डी श्रेयतुः । ग्रेथतुः । देभतुः ॥ न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org