________________
६१८
व्याश्रयमहाकाव्ये
[ भीमराजः]
तु शश्रन्थिथ । जग्रन्थिथ । ददम्भिथ । इत्येव स्यात् ॥ अन्यस्त्ववित्परोक्षासेटवोर्नित्यमेत्वमिच्छति नलोपं त्ववित्परोक्षायामेव । तेन श्रेथुः । ग्रेथुः । देभुः ॥ नलोपाभावेपि । श्रेन्थिय । ग्रेन्थिय । देम्भिथ । इत्येवेच्छति ॥
शशसतुः। शशसिथ । दददाते । ववणतुः । ववणिथ । शशरतुः। उच्चिचयिथ । इत्यन्न “न शंस" [ ३० ] इत्यादिना नैत् ॥ देहि चाच्छलमथो अवधेहि श्रूयतां व्यधित सिन्धुपतिर्यत् । दिग्य इष्टसुरकोशमपीप्यत्त्वजिघांसुसुभटान्प्रजिघाय ॥ ५३॥
५३. हे राजन्नच्छलं छलस्याभावं देहि वितर। यपि अत्यर्थं वितर वा । आवयोर्वदतोः स्खलितं न गणनीयमित्यर्थः । चः पूर्ववाक्यार्थीपेक्षया समुच्चये । अथो अनन्तरमवधेह्यवधानं कुरु । तथा सिन्धुपतिर्यव्यधिताकृत यत्तदोनित्याभिसंबन्धात्तच्छृयताम् । तदेवाहतुः । त्वजिघांसुसुभटांस्तव घातुकान्भटान्सिन्धुपतिदिग्ये भूरिद्रव्यादिदानेन पालितवान् । तथेष्टः समभावत्वेनाभिमतो य: सुरो मरुचण्डीशादिस्तस्य कोशं दिव्यजलमपीप्यत् । वयं भीमं हनिष्याम एवेति तद्वचसि स्वप्रत्ययोत्पादनायेष्टदेवतां संस्नप्य तान्नानजलं पायितवानित्यर्थः । तथा प्रजिघाय त्वत्पार्वे प्राहिणोत् ॥
---- १ ए धे श्रू . २ सी डी यत्त्वांजि.
. १ बी वो नित्य. २ ए मेवे । ते'. ३ डी वे । श्रे. ४ सी °थ । ग्रन्थि०. ५ सी °थ । दम्भि. ६ ए इत्यवे'. ७ ए णतु । व. ८ ए रतु । उ. ९ ए ई शश इ. १० ए स्खललि°. ११ सी डी न्धाच्छ्र. १२ सी डी देवहेतु:. १३ ए जिघासुः सुभ०. १४ ए दिये भू. १५ सीस्त को.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org