________________
ट्याश्रयमहाकाव्ये भीमराजः] नो न देभिथ ददम्भिथ नो जग्रन्थिथार्जवमिवाच्युतगोपः । सोर्सि देम्भिथ पुनः किमिति त्वां संदिशन्ति यमुनातटघोषाः॥५०॥
५०. यमुनातटघोषा: कालिन्दीतटगोकुलस्थलोकास्त्वां संदिशन्ति । कथमित्याह । हे राजन् । इवो भिन्नक्रमे । अच्युतगोप इवाच्युतो विष्णुर्यो गोपो गोधुक्स यथा गोपगोप्यादिषु दम्भं चक्रे न चार्जवं चकारैवं त्वं नो न देभिथ न नच्छद्माकार्षीः किं तु ददम्भिथ । प्रथममयोगव्यवच्छेदे वाक्यम् । दम्भेन सहायोगो व्यवच्छिद्यते । द्वितीयं त्वन्ययोगव्यवच्छेदे । अन्यस्यापि दम्भो घटते । परं त्वमेव ददम्भित्यन्यस्य दम्भेन योगो व्यवच्छिद्यते । त्वमेव शत्रुष्वनेकधा छलं चकथैवेत्यर्थः । दम्भवानप्ययं कदाचिदार्जवमपि कृतवान्भविष्यति नेत्याह । न जग्रन्थिथार्जवं मायाविष्णुः कदाचिदपि सरलस्वभावं नो चकर्थेत्यर्थः । यद्येवं ततः किमित्याह । असि त्वं सो. च्युतगोपः । किमिति पुनः किमर्थं पुर्नर्देम्भिथान्यादृशरूपप्रकाशनेनाच्युतगोपो नास्मीति मायां चकर्थेत्यर्थ इति । एतेन यमुनातटघोषाणामच्युत इव भीमे भक्त्यतिशय उक्तः ।। श्रेन्थिथोच्चिचयिथापि न पुष्पं ग्रेन्थिथ सज इहाखिलदिक्षु । कीर्तिभिः शशसिथाशु तमिस्रं दूरगान्ववणिर्थव पुरस्तात् ॥५१॥
५१. हे राजंस्त्वं पुष्पं कुसुमजातिं नोच्चिचयिथ नोचितवान्न श्रेन्थिथापि न प्रथितवांश्च । परमिह जगत्यखिलदिक्षु कीर्तिभिः कृत्वा
१बीसीडी 'सि देभि. २ ए श्रेथियो'. ३ ए °थाश्रु त°. ४ ए बी सी डी मिश्रं दू.
१ सी गोपादि. २ बी रैव त्वं. ३ डी काषीं किं. ४ डी त्यस्य. ५ बी ई दनुवन्नप्य. ६ सी मथि कृ. ७ बी डी ई विषु क०. ८ बी ई °वं न च'. ९ सी डी निर्देभिः. १० सी थे इ. ११ बी क्तः ॥ श्रन्धि.' १२ बी पुप्फ कु. १३ ए °च्चियथ. १४ वी °न्न श्रन्थि'. १५ सी श्रेथिया'. १६ डी ग्रन्थित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org