SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ [ है०४.१.२५.] अष्टमः सर्गः। ६१३ खेनुरेषु पफणुस्तव सूताः सस्खनुस्तव गुणांश्च विफेणुः। तत्रसुः स्वविषये न हि यत्रेसुरत्र न चरा अपि तद्वत् ॥ ४५ ॥ ४५. हे राजंस्तव सूता भट्टा एषु पूर्वोक्तेषु वृन्दावनादिविषयेषु पफणुर्जग्मुः । तथा विफेणुर्भयाभावेन स्वेच्छाचारित्वाद्विशिष्टं जग्मुः । तथा स्वेनुस्त्वदाशीर्वादायूचुः । तथा तव गुणान्सस्वर्नुश्चाकीर्तयंश्च । तथा तव चरा अपि हेरिका अपि । किं पुनः सूतादय इत्यप्यर्थः । यद्वद्यथा स्वविषये निजदेशे गूर्जरत्रायां न हि नैव तत्रसुर्बिभ्युस्तद्वत्तथात्रैषु देशेषु वृन्दावनादिषु न त्रेसुः ॥ सस्यमुर्यदलयो यदु हंसाः स्येमुराः कुरुषु तन्न रराजे । रेज ईश तव कीर्तनमावभ्राज इन्द्रसुतवर्णनक वा ॥४६॥ ___४६. उ हे ईश स्वामिन्नलयो भृङ्गा यत्सस्यमुः शब्दायिता यच्च हंसा: स्येमुस्तत्स्यमनम् । आ इति खेदे । कुरुषु देशेषु न रराजे सुखदं नाभूदित्यर्थः । खेदश्च तच्छब्दानां मधुरत्वेन सुखदानामप्यसुखकत्वात् । तर्हि किं रराज इत्याह । तव कीर्तनं वर्णनकं कुरुषु रेजे । वा यद्वा। इन्द्रसुतवर्णनकमर्जुनवर्णनाबभ्राजे कर्णाह्लादकमभूदित्यर्थः ॥ भ्रेज ऐल इति राघव आवभ्रास ईश्वरगणः परिभ्रेसे । भ्लेस आर्किरजभूपतिराबभ्लास इत्यनुदिशं त्वयि वादाः ॥४७॥ ४७. इत्येवंविधा वादास्त्वयि विषयेनुदिशं प्रतिदिशमभूवन् । के १ बी कीर्तिन. १ सी डी नुस्तदा . २ सी नुश्चकी'. ३ बी मन् मा इ. ४ ए शे न. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy