SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ६१२ व्याश्रयमहाकाव्ये [ भीमराजः ] 9 तानि तैत्तिरीयाणि यजूंषि प्रतीपं याचितः संस्तानि मूर्तनि तित्तिरिरूपाणि योगप्रभावाद्वमति स्म । वमनानन्तरं महर्षिणा तित्तिरीभूय प्रसित्वा तेषां च यजुषां शिष्येभ्यः प्रतिपादनाद्येजुर्वेदप्रसिद्धा तैत्तिरी शाखा जज्ञे । तस्याश्व याज्ञवल्क्येन वान्तानि तित्तिरिरूपाणि यजूंषि कारणमिति कार्यकारणयोरभेदोपचाराद्ववमिथापि च शाखामित्युपपन्नं स्यात् । याज्ञवल्क्यस्य विष्णुत्वेनोपवर्णनं महाप्रभावत्वात् । यदुक्तम् । यद्यद्विभूतिमत्सत्त्वं प्रभावोत्कटमेवे वा । तत्तदेवावगच्छेत्वं मम तेजोंशसंभवम् ॥ इति ॥ तथा यत्र देशेषु यमुनातटेष्वर्भक केल्या गेन्दुकशङ्कुला क्रीडादिकया बालक्रीडया हेतुना फेणिथ गोपबालकैः सह गतः । तथापफणिथागतश्च । तथेषन्मनाक् प्रेसिथ गेन्दुकादिप्रहाराशङ्कया भीतः । तथोचैरभितत्रसिथ चाभिमुख्येन भीतश्च । विष्णुर्हि कृष्णावतारे कंसभयेन बालकाले यमुनातटस्थेषु नन्दगोकुलेषु गोपरूपेणोषित इत्यागमिकाः । तथा यत्र देशे यमुनातटे वृन्दावने वा गोषु धेनुषु मध्ये रेजिथ गोरक्षाद्यर्थं गोवर्धनायुद्धरणाद्यवदातैः शोभितः । तथा गोपैः परिवारभूतैर्गोपालैः कृत्वा रराजिथ । तथा स्येमिथापि सिष्टाशब्दांश्च। कर्थ च न च सस्यमिथाप्यन्यकार्यव्यग्रतायां सिण्टाशब्दान्न चकर्थ च । गोपा हि जातिस्वभावेनान्यकार्याव्यग्रतायां सिण्टाशब्दान्कुर्वन्ति । केशिकंसवधादीनि वृत्तानि लोकप्रसिद्धान्येवेत्यत्र नोक्तानि ॥ 99 १२ १ बी री . २ एयुर्वे. ३ ए बी सी याइयव ४ बी सी 'वल्केन. ५ सी डी व च । त. ६ सी डी 'शेय ं. ७ सी डी न्दकु ८ एटे वन्दा ९ सी डी 'नाभ्युद्ध . १० डी 'थाकार्येप्यन्यव्य 'था कार्यप्यन्यव्यः. सी ११ बी यां शण्टा १२ ए सिण्ढाश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy