SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ है० ४.१.२५.] अष्टमः सर्गः। कृष्णावतारेण केश्यादिदैत्यवधार्थं भ्रान्तः । यथोच्चैः केशिनं केशिसंज्ञमश्वरूपं दैत्यं जेरिथ मुखमध्ये स्वबाहुप्रवेशेन विनाशितवान् । तथा यत्र देशे मथुरायां कंसं दैत्यमुज्जजरिथापि च । तथा यत्र देशे शोणितपुरेभिबलि बलिदैत्यं लक्ष्यीकृत्याभिमुखं भ्रमिथ वामनरूपेण बलिबन्धनीय भ्रान्तः । तथा यत्र देशे क्षीरसमुद्रोपकण्ठे वेदानृग्यजुःसामाख्यान्वेमिथ मत्स्यरूपेणोद्गीर्णवान् । पुरा हि किल चतुर्दशभुवनप्रलये हरि भिपद्मे ब्रह्माणं निर्ममौ । स च वेदानस्मार्षीन्मानसानृषींश्च निर्ममौ । तस्य च वेदान्स्मरतो जृम्भायामागतायां मुखे विवृतेकस्माच्छङ्घाख्यो दैत्यः प्रविश्य वेदानाहृत्य क्षीराब्धौ प्रविष्टस्ततश्च ज्ञानवैकल्येन ब्रह्मा शून्योभून्मानसर्षिभिश्चामुं शून्यतावृत्तान्तं विज्ञपितो हरिर्दिव्यचक्षुषा ज्ञातपरमार्थो मत्स्यरूपेण क्षीराब्धौ प्रविश्य शङ्ख हत्वा वेदानाहृत्य ब्रह्मणो मुखे वान्तवानित्यैतिह्यम् । तथा यत्र देशे मिथिलोपवने तैत्तिरी तित्तिरेरिमां शाखां यजुर्वेदांशं ववमिथापि च याज्ञवल्क्यरूपेणोद्गीर्णवांश्च । अत्र किल कस्यापि नृपतेः प्रणयिन्या निरपत्यतादुःखमपनेतुमाशिषं दातुं शाकल्यगुरोरादेशेन शान्तवेषाकारा विनेया: सदा ययुः । कदाचिदन्येषामसंनिहिततया गुरुयाज्ञवल्क्यमेव प्राहिणोत्तं च नववयस्तया रचितचारुवेषाकारं सविकारमिवाशिषं दातुमुद्यतं दृष्ट्वाहो अस्य महर्षेराशिषः प्रभावः स्थाणुमपि पल्ल. वयतीति राज्ञी सविस्मयमुपजहास । स च क्रुद्धस्तत्पुरः स्थाणुमेव सप्रभावतया तैरेव खैरक्षतैः पल्लवयित्वा गुरोः समीपमाययौ । सा च संभ्रान्ता तमानेतुं नृपेण गुरुमर्थयामास । नृपानुरोधाद्गुरुणा निर्बध्यमानोपि स यदा न ययौ तदा गुरुणा क्रुद्धेन स्वयमध्यापि १ सी शिसं. २ ए लक्षीकृ. ३ सी नादय. ४ ए नवान. ५ एमात्सा. ६ बी श्च तान. ७ बी विज्ञापि. ८ ए ययुर्वे. ९ सी क्यस्त'. १० ए र्याइयव . ११ बी त्पुरुस्था सी 'त्युरंस्था'. १२ ए व प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy