SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये त्वमीशो भविनामर्हन् भवान् विष्णुर्भवानजः । स्तुवन्नाह सुभण्णेवं श्रद्धया युहाः ।। ७९ ।। ७९ इह पुरेर्हन् देवतास्यार्हतः श्रावकः । श्रद्धया भावनया युङ् युक्तः पुलकाविताङ्गो नेत्रजैलाप्लावितकपोलचेत्यर्थः । ५४ विचि सुभ मधुरगीश्च सन् स्तुवंस्तीर्थकरं नुवन् सन्नेवमाह भक्तिविशेषेणार्हन्तं प्रतीदं ब्रूते । यथा हे अर्हं जिनेश्वर भविनां भव्यानां त्वमीशस्त्वमेव महेश्वरो भवान् विष्णुस्त्वमेव नारायणो भवानजस्त्वमेव स्रष्टा । तवैव मुक्तिप्राप्तिहेतुत्वात्वत्तोन्यर्द्धरहरिब्रह्माख्यं देवतान्तरं भव्यलोकानामाराध्यं नास्तीत्यर्थ इति ॥ [ मूलराज: ] युहि । सुभण्णेवम् । स्तुवन्नाह । इत्यत्र " हस्वात् " [२७] इत्यादिना द्वित्वम् || स्वादिति किम् । भवानजः ॥ ङणन इति किम् | त्वमीशः ॥ स्वर इत्येव । अर्हन् भवान् ॥ पदान्त इत्येव । भविनाम् ॥ आच्छायां दीपिकाच्छाया खट्टाछायेव माच्छिदत् । माच्छायाः कुर्वते रत्नदीपात्राप्रमाछवीन् ॥ ८० ॥ ८०. अत्र पुरे मया लक्ष्म्या छाया शोभा येषां ते माच्छाया ईश्वरा रत्नदीपान रत्नान्येव दीपान् मणिमयान् प्रदीपान् कुर्वते । किंभूतान् । प्रमिमीते विचि प्रमा नास्ति प्रमा परिच्छेत्ता यस्याः सा तथाभूता छविः कान्तिर्येषां तान् । सर्वतः प्रसरत्कान्तीनित्यर्थः । रत्नदीपकरणे हेतु - माह । दीपिकाच्छाया दीपपृष्ठेन्धकारं आच्छायामीषदपि लक्ष्मी माच्छिदमास्म विनाशयत् । यथा खट्टाछाया आच्छायां छिनत्ति । दीपखद्वयोश्छाये हि स्पृश्यमाने अश्रिये स्याताम् । यत्पुराणम् । १ सीतः २ एफ् काचिता ३ एफू जलप्ला. ४ एफ् प्रत्येवं ब्रू ५ एफद्धरिहर ६ ए किं किमत्र स्व. ७ डी रच्छाया आ. ८ एफू 'न्मा वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy