________________
[ है० १.३.३०.] प्रथमः सर्गः।
५५ अजारजः खररजस्तथा संमार्जनीरजः ।
दीपमञ्चकयोश्छाया लक्ष्मी हन्ति पुराकृताम् ॥ इति ॥ दीपिकाच्छाया खट्दाछाया । इत्यत्र "अनाङ्माङ' [२८] इत्यादिना वा छस्य द्वित्वम् ॥ अनाङ्माङ इति किम् । आच्छायाम् । माच्छिदत् ॥ ङित्करणान्माच्छाया इत्यत्र विकल्प एव । तेन पक्षे माछाया इत्यपि ज्ञेयम् । आमाहचर्येणाव्ययस्य माङो ग्रहणात्प्रमाछवीनित्यत्रापि विकल्पस्तेन प्रमाच्छवीनित्यपि ज्ञेयम् ।।
हे३च्छातोदरि हे३छेके तन्विच्छिद्म न यद्विधुः ।
हीच्छनिच्छति ते वक्रच्छायामत्रेति गीनृणाम् ॥ ८१ ॥ ८१. अत्र पुरे नृणां प्रस्तावात्कामिनामित्येवंविधा गीरस्ति । यथा हे३च्छातोदरि कृशोदरि हे३छेके हे तन्वि३कृशाङ्गि त्वन्मुखेन्दीवरलक्ष्म्या निर्जितत्वादू ह्रीच्छन् लजमानः सन् विधुश्चन्द्रो यत्ते वक्रच्छायां मुखलक्ष्मीमिच्छति प्राप्तुं वाञ्छति तन्न च्छद्म न कूटं किं तु सत्यमेतदित्यर्थ इति ॥
हे३च्छातोदरि हे३छेके । इत्यत्र "प्लुताद्वा" [२९] इति वा द्वित्वम् ॥ हेहैप्वेषामेव" [७.४.१००] इति प्लुतः ॥ दीर्घादित्येव । तन्वि३च्छद्म । “दूरादामन्य" [७.४.९९] इत्यादिना प्लुतः ॥
इच्छति । ह्रीच्छन् । वक्रच्छायाम् । इत्यत्र "स्वरेभ्यः" [३०] इति पदान्ते. पदान्ते च द्वित्वम् ॥
ब्रह्मवद्ब्रह्मवेत्तारो हृतार्काः कर्कशत्विषा । कीर्त्या प्रोर्णोनुवत्याशा अस्मिन्नहीं गुणहदाः ॥ ४२ ॥ ८२. अस्मिन्पुरेर्हन्ति पूजामित्यहाँ योगिनः कीर्त्या साधुवादेनाशा १ ए बी सी डी सन्मार्ज'. २ एफ् राजिंता'. ३ बी वं गी. ४ बी के३हे". ५ एफ हे३त. ६ सी डी वेकामे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org