________________
[ है० १.३.२६.]
प्रथमः सर्गः ।
५३
बान्धव साधो शिष्ट ये त्वया पूर्व वार्तया श्रुतास्त इम ईश्वरी आढ्याः। तथा येषां फलान्यमृतरसस्वादूनि त्वमास्वादयो ये त्वया श्रुतपूर्वाश्च त इम आरामा उद्यानानि । तथा यं त्वं यशसा दृष्टपूर्वी सोसाववनीपतिर्भूपो वर्तते । अत्र प्रदेश ईक्षस्वालोकयार्थादीश्वरादीनेवेति ॥ यतिस्मादिं देहि ययितोस्मायिदं पुनः ।
1
उदारायीश्वरायाहुरत्रेति स्वनियोगिनः ॥ ७८ ॥
७८. अत्र पुर उदारायीश्वरा आढ्याः स्वनियोगिनः स्वभाण्डागारिकॉनित्येवंप्रकारेणाहुः । यथा । अहो नियोगिन् यो याचकजन इतोस्मिन् विवक्षिते पूर्वादिदिग्विभागेस्त्यस्मायिदं स्वर्णदुर्वर्णादि देहि । यः पुनरितोस्मिन् विवक्षिते पश्चिमादिप्रदेशेस्त्यस्मायिदं पूर्वस्मादन्यद्भोजनवस्त्रादिकं देहीति ||
बन्ध एते । दृशा अस्याः । क इव । स्तुत्या अन्योन्य । भो इन्द्र । भगो ईश । अघो अर्क । इत्यत्र “स्वरे वा” [२४] इति व्ययोर्वा लुक् ॥
पक्षे । विष्णव | असावु । कयु । आदित्यायु । भोयादित्याः । भगोयिन्दो | अघोयिन्द्र । इत्यत्र “अस्पष्टा" [२५] इत्यादिना वँययोः स्थाने नित्यमस्पष्टावीपत्स्पृष्टतरौ वयौ । अवर्णात्त्वनुजि वा । बन्धवत्र । साधवीक्षस्व । असाववनीपतिः । आगन्ताविति । तयीश्वराः । तयारामाः । अस्मादिम् अस्मादिम् । ययितः ययितः । उदारायीश्वराः । ईश्वरायाहुः । अनुजीति किम् । उँजि अस्पष्टावेव यथा स्यातां तथा चोदाहृतम् ॥
ययितः । उदारायीश्वराः । भोयादित्याः । भगोयिन्दो | अघोयिन्द्र । इत्यत्र “शेर्यः” [ २६ ] इति रोः स्थाने यः ॥ अवर्णादिभ्य इत्येव । आहुरत्र ॥
१ सी डी राधाः । त. २ बी सी डी त्वमस्वा. ३ सी डी 'था यत् स्वं. एफ् थाय ४ बी सी डी कानाहु:. ५ एदं पूर्वस्मादिं पू. ६ ए एफ् वयो ं. ७ एफ् वयो:. ८ ए बी सी डी रौ यवौ । ९ ए उडि अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org