SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ [ है. ३.४.९२.] अष्टमः सर्गः। ५९७ तदैव कुसुमवर्षणतः खं प्रास्नोष्टेत्यर्थः । एतेनास्य राज्याभिषेकेतिशुभनिमित्तोक्तिः ॥ __णि । नाचीकरतायम् ॥। प्रास्त्रोष्ट खम् ॥ भि। नोदशिश्रियतायम् ॥आत्मनेपदाकर्मक । न व्यकृतायम् । अत्र “णिस्नु' [९२] इत्यादिना न मिच् ॥ राट्सथालमकृताभिनवः सोलंकरिष्यत इतो न यथान्यः । खापुरे पुनरबूभुषताद्योथानुजः सममलंकुरुते स्म ॥ २२ ॥ २२. सोभिनवो राडाजा भीमस्तथालमकृतालमकार्षीत् । तथा प्रकारः । तमेवं नालमकृत स स्वयमेव राज्यश्रिया तथा रेज इत्यर्थः । यथेतो भीमादन्योपरोभिनवोराडालंकरिष्यते नालंकरिष्यत्यन्यं यथा प्रकार एवं न नालंकरिष्यतेन्यः स्वयमेव न शोभिष्यत इत्यर्थः । उपलक्षणत्वाद्यथान्यो न शुशुभे न शोभते च । सर्वराजोत्कृष्टो राजाभूदित्यर्थः। तथाद्यः पूर्वो राट् पुनर्दुर्लभैः स्वःपुरे स्वर्गनगरेबूभुषत । आद्यराजं स्वःपुरं कर्जबूभुषत्स्वमहालमकार्षीदेवं न स्वयमेवाबूभुषतं रेज इत्यर्थः । अथ तथानुजो नागराजः स्वःपुरे समं सहालंकुरुते स्म । कर्मकर्तृविवक्षा पूर्ववत् । दुर्लभनागराजौ स्वर्गे महर्द्धिको देवौ सहचरावभूतामित्यर्थः ॥ मात्र भूमिभुजि भूषयते भूर्भूषयिष्यत इवाधिवलि द्यौः। कीर्तिरत्र चजयिन्यचिकीर्षिष्ट स्म चाम्बुधि चिकीर्षत ऋद्धिः ॥२३॥ २३. अधिबलि बलिदैत्ये रक्षकत्वेनाधारे रक्ष्यत्वेनाधेया द्यौः १ ए सी जयन्य. १ सी डी केशु. २ डी स्नु । प्रस्नो. ३ बी राजमी'. ४ बी सी डी वं ना. ५ ए न्योन्यशु ६ सी डी तदाथः. ७ बी भः स्वपु. ८ सी डी षत् । आ', ९ सी जं स्वपु. १. डीपत् रे'. ११ ली जः स्वपु. १२ ए रक्षावे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy