________________
५९८
व्याश्रयमहाकाव्ये
[ भीमराजः ]
I
स्वर्गे यथा भूषयिष्यते । बलिरिन्द्रो भविष्यतीति प्रसिद्धेर्भूषयिष्यति यां बलिरेवं न । स्वयमेव भूषयिष्यते द्यौर्बले: सुप्रभुत्वाच्छोभिष्यत इत्यर्थः । तथात्र भूमिभुजि भीमे न्यायरक्षकत्वेनाधारे वर्तमाना भूर्भूषयते स्म । कर्मकर्तृविवक्षा प्राग्वत् । अत एवात्र भूमिभुजि सति जयिनी सर्वकीर्त्यत्कृष्टत्वेन विजयमाना कीर्तिश्चैतदानपुण्यकृता ख्यातिश्चाम्बुधि समुद्रमभिव्याप्या चिकीर्षिष्ट । अचिकीर्षीदयं कीर्तिमेवं न । किं त्वचिकीर्षिष्ट कीर्तिः स्वयं भवितुमैषीद्विस्तृतेत्यर्थः । तथा ऋद्धिश्चैतदीया भूसैन्यादिसंपञ्चाम्बुधि चिकीर्षते स्म । पूर्ववत्कर्मकर्तृविवक्षा ॥
9
की सुयशस्य चिकीर्षिष्यन्त आद्यचरितानि तदुच्चैः । अञ्जसा रिपुगणश्च चिकीर्षीष्टेति तत्र किरते स्म नृणां वाक् ॥ २४॥
२४. तत्र भीमविषये नृणां वोक्किरते स्म । किरन्ति स्म वाचं नर एवं न । किं तु स्वयमेव किरते स्म प्रससारेत्यर्थः । किंभूता । यद्यस्माद्धेतोरस्य भीमस्य सुयशः पराक्रमकृता ख्यातिर्व्यकीर्ष्ट । व्यकारीत्सुयशोयमेवं न । किं तु स्वयं व्यकीष्टे सुयशः सर्वत्रैतस्ततो गतमित्यर्थः । तत्तस्मादुच्चैरतिशयितान्याद्यानां पूर्वेषां रामचन्द्रादीनां चरितानि दैत्योच्छेद सर्व दिग्जयादीनि चरित्राण्यस्य चिकीर्षिष्यन्ते । चिकीर्षिष्यत्याद्यचरितान्ययमेवं न । किं तु स्वयमेवाद्यचरितान्यस्य चिकीर्षिष्यन्ते भवितुं वाञ्छिन्ति । यशोविस्तारादयं रामचन्द्रादिपूर्वनृपतुल्यो भविष्यतीत्यर्थः । इत्येवंविधा । अग्रेतन इतिरत्रापि योज्यः । तथास्य रिपुगणोसा सामस्त्येन चिकीर्षीष्ट । चिकीर्याद्विक्षिप्यद्धिस्याद्रिपु
७
१ ए र्षिष्ट कीर्तिः, ४ बी वाक्किर. ५ एयं वाकी
८ सी 'व्यन्ते भवितुं वान्छिष्यन्ति ।.
Jain Education International
२ एथा रुद्विचै ३ एम्बुद्वि चि' बी 'बुधिं चि . ७ ए दिग्गया.
•
६ ए 'त्यो सर्वच्छे
९ डी प्याद्रि .
For Private & Personal Use Only
www.jainelibrary.org