________________
घ्याश्रयमहाकाव्ये [ भीमराजः] नेत्यचीकरत न व्यकृतायं नोदशिश्रियत किं तु तदाभ्याम् । अभ्यषेचि स विनीय सुतः प्रास्नोष्ट खं कुसुमवर्षणतश्च ॥ २१॥
२१. अयं नागराज इति पूर्वोक्तप्रकारेण नाचीकरत नाकार्षीदिति प्रकार इमं राजानं प्रयोक्रैवं विवक्ष्यते नायं नाकार्षीतिक तु नाकार्ययं स्वयमेव तं स्वयमक्रियमाणमिति प्रकारः । प्रायुत णिगि नाचीकरदिति प्रकार इमं राजानं पुन: प्रयोक्तवं विवक्षते एवं न किं विति नाचीकरतायं स्वयमेव । यद्वा नाकार्षीदिति प्रकार इमं राजानं तमकृतवन्तं दुर्लभः प्रायुक्त णिगि नाचीकरदिति प्रकारेणेमं राजानं दुर्लभः स एवं विवक्षितवान्नाहं नाचीकरं न चेति प्रकारो नाकार्षीत्किं त्विति नाचीकरतायं स्वयमेवोक्तरीत्यायं स्वयमेव राजा नाभूदित्यर्थः । राज्यदानप्रस्तावादत्र राजेति गम्यते । तथेत्युक्तप्रकारेणायं न व्यकृत विकरोतिर्वल्गनेन्तर्भूतण्यर्थः कर्मस्थक्रियः न व्यकार्षीन्न विकृत्य(त्या?)कार्षीदिति प्रकार इममेवं न किं तु न व्यकृतायं स्वयमेवोक्तरीत्या राज्यादिवाञ्छोत्थविकारवान्नाभूदित्यर्थः । तथेति नोदशिश्रियत नोदशिश्रियन्नौद्धत्य (त्या)कार्षीदिति प्रकार इममेवं न किं तु नोदशिश्रियतायं स्वयमेव । उक्तरीत्या बृहद्धातुरुचितप्रतिपत्तिकरणान्नोद्धतोभूदित्यर्थः । किं तु तदाभ्यां दुर्लभनागराजाभ्यां स सुतो भीमो विनीय मधुरालापशिक्षया संबोध्याभ्यषेचि राज्येभिषिक्तः । तथा खं व्योम कुसुमवर्षणतः पुष्पवर्षात्प्रोस्नोष्ट च । अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे प्रास्नावीकुसुमवर्षणं कर्तृ खं कर्म । एवं न किंतु प्रास्नोष्ट च खं स्वयमेव। देवताप्रभावात्पुष्पवर्षेण क्षरितं चेत्यर्थः । वस्तुल्ययोगितार्थः । यदैव सोभ्यषेचि
१ बी ई "युक्त णि° २ बी योवं. ३ बी सी डी वक्ष्यते. ४ बी ई युक्त णि. ५ बी वान्नहं. ६ सी डी ज्यप्रदा . ७ ए सी डी ई °यन्नोद्ध'. ८ ए °लापायशि. ९ बी सी प्राश्नोष्ट. १० डी व स ताभ्यामभ्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org