SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ [ है० ३.४.८५.] अष्टमः सर्गः। ५९३ पकम् । एवं पच्यते पक्ष्यते च । कृतं क्रियमाणं करिष्यमाणं च श्रेयस्तवाभीष्टफलदानोन्मुखमभूद्भवति भविष्यति चेत्यर्थः । एतेन सर्वेण राज्ञस्तपोङ्गीकारो निषिद्धः ॥ तद्वदुग्धे गौस्तवासौ वसूनि स्वामिन्यद्वद्वेनसूनोरदुग्ध । हृद्विड्डोकोपक्त ते क्षत्रवृत्त्या नो वारुद्धामुत्र लोकः किमेतत् ॥१८॥ १८. यद्वद्यथा वेनसूनोः पृथुराजस्य गौः पृथ्वी वसूनि रत्नानि द्रव्याणि वादुग्धाधुक्षदँदुग्ध वा गां वसूनि वेनसूनुः । स एवं विवक्षितवान्नाहं गामधुक्षि किंत्वदुग्ध गौः स्वयमेव न्यायपालनेन महर्द्धिकत्वात्स्वयमेव क्षरितवती तद्वत्तथा हे स्वामिस्तवासौ गौर्वसूनि दुग्धे स्वयमेव क्षरति । तथा ते तव क्षत्रवृत्त्याभङ्गशौर्यादिना क्षत्रियाचारेण कृत्वा द्विट्लोको हृद्धृदयमपक्त । पचिरत्र द्विकर्मकोन्तर्भूतण्यों वा। अपाक्षीत्क्षत्रवृत्तिद्विलोकं हृत् । प्रयोक्रैवं विवक्ष्यते नेयमपाक्षीत्किं तु द्विलोको हृत्स्वयमेवापक्त स्वयं संतापितवानित्यर्थः । नो वा न च क्षत्रवृत्त्या कृत्वा तेमुत्र लोकः परलोकोरुद्धं नारौत्सीन्नारुधी । निवर्तमानं न न्यवीवृतत्क्षत्रवृत्तिरमुत्र लोकं नो वारुद्ध स्वयमेव । तस्माकि किमर्थमेतद्राज्यत्यागेन तपोग्रहणम् । तपोग्रहणं हि निःसपत्नमहर्द्धिकभूमिस्वामित्वरूपेहलोकफलार्थ स्वर्गापवर्गादिपरलोकफलार्थं च क्रियते । तच्च तव सर्वं राज्यस्थस्याप्यप्रतिहतमस्ति तस्माकिमनेन तपोग्रहणेनेत्यर्थः ॥ ये तपस्तप्यन्ते । तेपिरे । अत्र "तपेः" [ ८५] इत्यादिना कर्तरि जिक्यास्मनेपदानि ॥ . १ सी डोक्योप'. १ सी डी एव प. २ सी डी नि द्रव्याणि रत्नानि वा.३ सी डी दधुग्ध. ४ सी सूनुः स एवं वि किं त्वदु. ए सूनुरदु. ५ई दुधव गौः. ६बी यं हृदयं सं. ७ सीद्ध नोरौ . ८ ई द्वाऽनि. ९ बी नं मन्य. १० सी कं नावा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy