SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ढ्याश्रयमहाकाव्ये . [भीमराजः] अकारि तपः। क्रियन्ते कारिष्यन्ते सिद्धयः । अत्र ‘एकधातौ” [८६] इत्यादिना जिक्यात्मनेपदानि ॥ .. श्रेयोपाचि । पच्यते । पक्ष्यते । अपक्त द्विड्डोको हृत् । दुग्धे । अदुग्ध गौर्वसूनि । इत्यत्र “पचिदुहेः" [ ८७ ] इति जिक्यात्मनेपदानि ॥ - अपक्त द्विड्लोको हृत् । अदुग्ध गौर्वसूनि। इत्यत्र "न कर्मणा जिच्” [ ८८ ] इति न जिच् ॥ _ नो वारुद्धामुत्र लोकः । अत्र "रुधः" [ ८९ ] इति न जिच् ॥ .. अथ भीमो राज्ये स्वमनधिकारिणमेवाह । को वाकारि व्याकृतेति स्मृतिः का पुत्र राज्यं यत्सति भ्रातरीशे । मैवं कार्षीौरदुग्ध स्वयं चेदुग्धानहें सा हि नादोहि तात ॥१९॥ १९. हे तात भ्रातरीशे राज्यधुराधरणक्षमे सति विद्यमाने यत्पुत्रे राज्यं भवतीत्येवंविधा स्मृतिः का व्याकृत । व्याकार्षीदपप्रकटदेवंविधां स्मृति स्मृतिकारः । प्रयोक्रैवं विवक्ष्यते नायं व्याकार्षीकिं त्विति स्मृतिः स्वयं व्याकृत । न काप्येवंविधा स्मृतिः प्रकाशते स्मेत्यर्थः । वा यद्वा भ्रातरीशे सति कः पूर्वो नृपः । इतिरत्रापि योज्यः । इतीदृशस्त्वत्सदृशः पुत्रे राज्यस्य स्थापयितेत्यर्थः । अकारि अकार्षीदित्येवंविधं पुत्राय राज्यस्य दातारं कश्चिदमात्यादिरुपदेशदानादिना । स एवं विवक्षितवान्नाहमकार्ष किं त्विति स्वयमेवायमकारि भ्रातरि समर्थे सति पुत्राय राज्यस्य दाता त्वमिव न कोपि पूर्वनृपोभूदित्यर्थः । एतेनात्मनो राज्यानहत्वमुक्तम् । तस्मादेवमिदं मह्यं राज्यसमर्पणं मा कार्षीः । नन्वेवं कृते को दोष इत्याशङ्कय दृष्टान्तोपदर्शनद्वारेण दोषमुद्भावयति । -१बी शे । मेवं. . १ ए त् । अ°. २ ई °धिकरण'. ३ सी डी गमाह'. ४ ई वीदेवं. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy