SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५९२ व्याश्रयमहाकाव्ये तुदन् । भृज्जमानः । अत्र " तुदादेः शः " [ ८१ ] इति शः ॥ रुन्धे । भनज्मि । इत्यत्र " रुधाम्" [ ८२ ] इत्यादिना स्वरात्परः श्नः । प्रकृतिनस्य च लुगन्वाचीयते ॥ " -3: कुर्वन् । व्यातन्वानः | अमन्वानः । अत्र “कृग् ” [ ८३ ] इत्यादिना उः ॥ असर्जि । सृज्यते । त्रक्ष्यतेयं भक्तिम् । अत्र "सृजः " [ ८४ ] इत्यादिना 1 कर्तरि जिक्यात्मनेपदानि ॥ एतेन क्ष्मां गृहाणेति राज्ञा यदुक्तं तन्निषिध्ये तीर्थं रुन्धे कर्मपाशान्भनज्मीत्यनेन तपोङ्गीकरणं यत्सूचितं तत्फलं राज्येप्युपपत्त्या दर्शयंस्तपोङ्गीकरणं वृत्तद्वयेन निषेधन्नाह । 3 ये तप्यन्ते तत्तपस्तेपिरे वा तान्पातस्तेकारि तीव्रं तपो हि । कारिष्यन्ते सिद्धयोथ क्रियन्तेपाचिश्रेयः पच्यते पक्ष्यते वा ॥ १७॥ १७. हे राजंस्तत्तीर्थसेवातीब्रत्वादिना प्रसिद्धं तपो व्रतं ये तपखि नस्तप्यन्ते कुर्वन्ति तेपिरे वा चक्रुर्वा । उपलक्षणत्वात्तस्यन्ते वा तान्पातो रक्षतस्ते तव । हि यस्मात्तीव्रं तपोकारि अकार्षीस्तीव्रं तपस्त्वम् । अनायाससाध्यत्वात्प्रयोक्तैवं विवक्षितवान्नायमकार्षीत्किं त्वकारि तपः स्वयमेव । तपस्विरक्षकत्वेन तत्तपोविभागित्वात्ते स्वयमेव तपो निष्पन्नमित्यर्थः । तस्मात्सिद्धयो मनोरथपरिपूर्तयस्तव कारिष्यन्ते करिष्यसि त्वं सिद्धीः । कारिष्यन्ते सिद्धयः स्वयमेव । निष्पत्स्यन्ते स्वयमेवेत्यर्थः । अथ तथा सिद्धयः क्रियन्ते स्वयमेव निष्पद्यमानाः सन्तीत्यर्थः । उपलक्षणत्वात्स्वयमेव निष्पन्नाञ्च । वाथ वा युक्तमेवैतद्यत्सिद्धयः करिष्यन्ते क्रियन्तेकॉरिषत चेति । यतस्तव श्रेयस्तपोजनितं पुण्यमपाचि अपाक्षीः श्रेयस्त्वम् । अपाचि श्रेयः स्वयमेव स्वयं परि [ भीमराजः ] १ एन्वादीय. २ एध्य तर्थ. ३ ई ङ्गीकारं वृ. ४ बी सी डी 'धयन्ना', ५ सी डी रक्ष्यत ६ ई 'मेवेत ७ सी रिष्यत, डी 'रिष्यन्त चे'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy