________________
[ है० ३.४.८०.]
अष्टमः सर्गः।
५९१
अस्कुन्नात् स्कुनुवानम् । अस्कुनात् स्कुन्वानेन । इत्यत्रं "स्तम्भू” [ ७८ ] इत्यादिना ना नुश्च ॥ क्रीणन्प्रीणन्स्वैर्गुणैः क्ष्मां गृहाणारीस्तेजोभि जमानस्तुदंस्त्वम् । तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यूचे राज्ञा सोथ कुर्वन्सदाज्ञाम् ॥१५॥
१५. अथ सदाज्ञां कुर्वन्स भीमो राज्ञा दुर्लभेनोचे । कथमित्याह । हे भीम क्ष्मां गृहाणाङ्गीकुरु । कीहक्सन् । स्वैर्निजैर्गुणैः शौर्यन्यायादिभिः कृत्वा मां प्रीणन्नत एव क्रीणन्वशीकुर्वंस्तथारीस्तेजोभिः प्रतापर्भुजमानः सन्तापयन्नत एव तुदन्पीडयन् । अहं तु तीर्थ रुन्ध
आँवृणोमि सेव इत्यर्थः । तथा तीव्रतपोनुष्ठानात्कर्मपाशान्मोहनीयादिकर्मबन्धनानि भैनज्मि त्रोटयामीति ।। व्यातन्वानोश्रूण्यमन्वान एतन्नम्रो भक्त्येत्यब्रवीद्राजपुत्रः । तातासर्जि स्रक्ष्यते सृज्यतेन्यां सर्वां भक्तिं न विदं ते जनोयम्
॥१६॥ १६. राजपुत्रो भीम इत्यब्रवीत् । कीदृक्सन् । अश्रूणि नेत्रजलानि व्यातन्वानो समाधिना विस्तारयंस्तथैतद्राजोक्तममन्वानोप्रतीच्छंस्तथा भक्त्या नम्रः । यद्ब्रवीत्तदाह । हे तातायं मल्लक्षणो जनस्ते तान्यां सर्वां भक्तिमसऱ्याकार्षीत्स्रक्ष्यते करिष्यति सृज्यते करोति च । न तु न पुनरिदं क्ष्माग्रहणमसर्जि स्रक्ष्यते सृज्यते च ।। क्रीणन् । प्रीणन् । इत्यत्र "त्र्यादेः" [ ७९ ] इति ना ॥ गृहाण । इत्यत्र "व्यञ्जनाद्' [ ८० ] इत्यादिना भायुक्तस्य हेः स्थान
आनः ॥
१ ए क्रीडन्प्री'. २ ए भक्तेल्य. ३ ए बी ते स्रज्य'.
१ ए°त्र "सम्भू. २ ए क्रीडन्व. ३ ए आदृणो' ४ ए शामोह'. ५ बी भजन्मि त्रो. ६ई °वाशां स. ७ ए क्रीडन् ।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org