SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५८७ [ है०३.४.७०. ] अष्टमः सर्गः । राज्ञोनेनाशय्यत क्रीडताङ्के दत्त्वा सार्धं दीव्यतां स्मात्ति चैषः । प्रासादाग्रेष्वभ्रमद्भासमानः स्प्रष्टुं सोग्रे भ्राम्यतो भ्रास्यमानान् ॥९॥ ९. अनेन भीमेन क्रीडता राज्ञो दुर्लभस्याङ्क उत्सङ्गेशय्यतातिवल्लभत्वात्सुप्तम् । तथैष भीम उदारप्रकृतित्वात्सार्धं दीव्यतां राजबालकानां दत्त्वाम्रफलादि भक्षयति स्म च । तथा स भीमो भ्रासमानो रूपवेषादिना शोभमानो भ्रास्यमानानप्रे भीमाग्रे भ्राम्यतः केल्या गच्छतो राजकुमारकान्स्प्रष्टुं छोतुं प्रासादात्रेष्वभ्रमत् । जातिरलंकारः ॥ कण्ठे निष्कः क्राम्यतो भ्लास्यमानस्यास्य कामेभ्लासते स्मात्रुटच्छ्रीः । धन्वा त्रुट्यत्कान्ति संक्षिप्य दत्तं मन्ये सख्यं लेष्यताखण्डलेन ॥ १० ॥ १०. लास्यमानस्य रूपादिना शोभमानस्यास्य भीमस्य कण्ठेत्रुटच्छ्रीर नेकवर्णमणिखचितत्वेन संपूर्णशोभो निष्कः कण्ठालंकारो भ्लासते स्म । कीदृक्सन्। क्रामंश्चलन् । यतः किंभूतस्यास्य काम्यतो बालत्वेन चपलखभावत्वादितस्ततश्चलतः । सश्रीकत्वाद्वितीयेन्दुवक्रत्वाचोत्प्रेक्षते कविः । मन्ये सख्यमनेन सह मैत्री लभ्यतेच्छताखण्डलेनेन्द्रेणा त्रुट्यत्कान्ति अखण्डत्वेन सश्रीकं धन्व धनुः संक्षिप्य लघुकृत्य दत्तमर्थादस्मै ॥ द्राक्संयस्यत्यश्वशालाप्लवङ्गे त्रस्यद्यस्यत्क्लाम्यदन्यार्भकेषु । नैषोक्लामन्नात्रसन्नायसच्च द्रष्टुं केल्यासंयसंश्रालपत्तम् ॥ ११ ॥ ११. अश्वशालाप्लवङ्गेश्वशालायां यः वङ्गोवानां चक्षुर्दोषाभावाय १ सी डी 'मद्भ्लास २ ए लक्ष्यता. १ बी सी भ्लासमा २ ए बी क्रामतो. ३ ए लक्ष्यते ४ई यां प्ल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy