________________
५८८
व्याश्रयमहाकाव्ये
[भीमराजः]
वानरस्तस्मिन्संयस्यति बालकाभिमुखधावनार्थमुद्यच्छति सति द्राक् त्रस्यन्तो विभ्यतोत एव यस्यन्त आत्मरक्षायै प्रयतमानास्तथा क्लाम्यन्तो दीनीभवन्तोन्ये भीमाव्यतिरिक्ता येर्भकास्तेषु तथा सत्स्वेष भीमो नात्रसत् । अत एव नालामन्नायसच्च किं त्वसंयसन्नप्रयत्नवान्सन्केल्या कौतुकेन तं प्लवङ्गं द्रष्टुमलषदैच्छत् ॥ - अशय्यत । इत्यत्र "क्यः शिति" [७०] इति क्यः ॥ . क्रीडता । इत्यत्र "कर्तरि” [१] इत्यादिनों शव् ॥ अनन्ध इति किम् । अत्ति ॥ दीव्यताम् । अत्र "दिवादेः श्यः" [७२] इति इयः ॥
भ्रास्यमानान् भ्रासमानः । भ्लास्यमानस्य भ्लासते । भ्राम्यतः अभ्रमत्। क्राम्यतः कामन् । क्लाम्यत् अक्लामत् । त्रस्यत् अत्रसत् । अत्रुव्यत् अत्रुटत् । लप्यता अलपत् । यस्यत् । अयसत् । संयस्यति असंयसन् । इत्यत्र "भ्रासभ्लास” [७३] इत्यादिना वा इयः ॥ कुष्यत्कूर्चः कुष्यमाणावतंसोरज्यद्राजारज्यतामात्यवर्गः। संसिन्वानेङ्कन तस्मिन्प्रसुन्वन्हर्ष कान्वा नानुरागो निराक्ष्णोत्
॥१२॥ १२. तस्मिन्भीमेङ्केनोत्सङ्गेन सह संसिन्वाने संबद्धी भवति राजा दुर्लभोरज्यदरजद्रागयुक्तं राजानमकरोद्भीमः । प्रेमवशादनायासेन राज्ञो रञ्जितत्वात्प्रयोक्रा विवक्ष्यते ना{ भीमोरजत्किं तु स्वयमेवारज्यत्तथामात्यवर्गश्चारज्यत स्वयमेव रागयुक्तोभूत् ।कीहक्सन् । कुष्यत्कूर्चः कुष्णात्याकर्षति बालस्वभावेन कूर्च भीमः । प्रयोक्रा विवक्ष्यते नामुं
१ए सी नेकेन.
१ डी माद्यति'. २ ए बी सी डी लाम्यन्ना. ३ बी यस्यन्न. ४ ई स. केल्या. ५ सी ना सिव्. ६ ए बी शच् ॥. ७ बी सी वादे श्यः. ८ बी ध्यत् अ. ९ ए ने सह सं. १० सी युक्तरा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org