________________
५८६
ब्याश्रयमहाकाव्ये [भीमराजः] दस्यावाहसातां लगुडादिप्रहारैराहते । अवाग्रहीषातां च कारागृहादौ निक्षेपेण प्रतिबद्धे च। न्यग्राहिषातां च सर्वस्वाद्यपहारेण दण्डिते च । तथा नास्तिकत्वेन यैः पुण्याघे धर्माधर्मों नादर्शिपातां न ज्ञाते । तथा यैर्निजान्यावात्मपरौ नादृक्षातां बलाद्यवलेपान्धतया स्वमात्रां परमात्रां च ये नाजानन्नित्यर्थः । अत एवानेन लक्ष्मीः प्रसन्नानुग्रहपरा साक्षादर्शिषीष्ट दृश्यताम् । तथा सा प्रसिद्धा ब्रह्मकन्यापि सर• स्वती च तुष्टा साक्षादृक्षीष्ट । तथा धर्मश्चानुग्राहिषीष्टानुकूलाचरणेनानुगृह्यताम् । तथेन्द्रे शक्रविषये मैत्री चे ग्रहीषीष्टाङ्गीक्रियतामिति ॥ उदपादि । इत्यत्र “जिच्ते" [६६] इत्यादिना जिच्तलुक्क ॥
अत्यदीपि अदीपिष्ट । अजनि अजनिष्ट । अबोधि व्यबुद्ध । अपूरि अपूरिष्ट । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट । इत्यत्र “दीपजन” [६७] इत्यादिना वा जिच्तलुक्क ॥ व्यजृम्भि । अभाजि । इत्यत्र "भाव" [६८] इत्यादिना जिच्तलुक्क ॥
चायिष्यते चेष्यते।आचायिषाताम् आचेपाताम् । चायिषीष्ट चेषीष्ट । चायिता चेता । ग्राहिष्यन्ते विग्रहीष्यन्ते । न्यग्राहिषाताम् अवाग्रहीषाताम् । अनुग्राहिषीष्टं ग्रहीपीष्ट । ग्राहिता ग्रहीता। दर्शिष्यते द्रक्ष्यते। अदर्शिपाताम् अदृक्षाताम्। दर्शिषीष्ट दृक्षीष्ट । दर्शिता द्रष्टा । घानिष्यन्ते निर्हणिष्यन्ते । आधानिषाताम् आहसाताम् । घानिषीरन् । घानिता हन्ता । इत्यत्र “स्वरग्रह" [६९] इत्यादिना वा जिट् ॥ हन्तेस्त्वाशिषि विकल्पोदाहरणं स्वयं ज्ञेयम् ॥
१बी द्यप्रहा. २ डी °ण्याथें ध. ३ डी स्वमन्यं च, ४ डी सादृक्षी. ५ सी डी च गृही. ६ बी °त्र “निच्ते. ७ बी ना जि. ८ ई °लुक् वा ॥ व्य. ९ सी डी °ते । अचा. १० ए °ष्ट ग्राही. ११ सी डी निर्हिणि०. १२ बीई न्ते । अघा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org