________________
[ है० ३.४.६६. ]
अष्टमः सर्गः ।
५८५
ग्राहिष्यन्ते विग्रहीष्यन्त उच्चैर्घानिष्यन्ते निर्हणिष्यन्त ईशाः । तेनासौ द्रक्ष्यते यैर्न भक्त्या यैर्दोः शक्त्याध्याजि दर्शिष्यते वा ॥५॥ एतेन क्ष्मा ग्राहिताब्धिर्ग्रहीता द्रष्टा तत्त्वं दर्शिता न्यायमार्गः । हन्तोत्सेको घानितांहःप्रचारः केनाप्येतौ यौ हि नाघानिपाताम् ॥६॥
यै स्यावासा तामवाग्रहीषातां न्यग्राहिषातां च दैत्यैः । पुण्याघे नादर्शिषातां निजान्यौ नादृक्षातां तेमुना घानिषीरन् ॥७॥ लक्ष्मीः साक्षादर्शिषीष्ट प्रसन्ना सा दृक्षीष्ट ब्रह्मकन्यापि तुष्टा । धर्मश्वानुग्राहिषीष्ट ग्रहीषीष्टेन्द्रे मैत्री चेति खे वाक्तदाभूत् ॥ ८ ॥
५८. तदा पुत्रजन्मकाले खे वागभूदैवी वाणी बभूवेत्यर्थः । कथमित्याह । असौ भीमो यैर्भक्त्या न द्रक्ष्यते वा यद्वा यैर्दोः शक्त्या बाहुबलेन हेतुनाध्याजि रणे दर्शिष्यते त ईशाः समर्था अनेन भीमेनोच्चैर्विग्रहीष्यन्ते योधयिष्यन्ते । ततः केचिद्राहिष्यन्ते बढा लास्यन्ते । केचिच घानिष्यन्ते प्रहरिष्यन्ते । केचिच्च निर्हणिध्यन्ते व्यापादयिध्यन्ते । अत एव क्ष्मा ग्राहिता वशी करिष्यते । तथाब्धिर्ग्रहीता । तथा तत्त्वं परमब्रह्म द्रष्टा ज्ञास्यते । अत एव न्यायमार्गों दर्शिता । अत एव चोत्सेको गर्यो हन्तोच्छेत्स्यते । तथांहः प्रचारः पापविस्तारो घानिता । याचेतावत्से कांहः प्रचारौ हि स्फुटं केनापि नाघानिषातां दुर्जेयत्वान्नोच्छेदितौ । एतेन सर्वेपि भीमेन बाह्या आन्तराश्च द्विषो जेष्यन्त इत्युक्तम् । तथामुना भीमेन ते दैत्या घानिषीरन् हन्यन्तां यैर्दैत्यै रो१ डी या ना.
1
१ए ईशा स ५ सी डी मेनैते.
७४
Jain Education International
२ सी डी . ३ बी हा दृष्टा ४ बी ई वेणापि . ६ बी 'न्यन्त्यां यै.
For Private & Personal Use Only
www.jainelibrary.org