SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५८४ व्याश्रयमहाकाव्ये [ भीमराजः ] 9 संतत्या पितॄणामिति स्मृतिः । तथा लोकः सद्यो हर्षमतायि विस्तारि तवानत एव द्वारं सिंहद्वारमपूरि व्यापत् । तथा मध्यं प्रासादमध्यभागं चापूरिष्ठे तथा गीतं चातायिष्ट । क्ष्माप्यायिष्टाप्यायि राजा मुदाभाज्यापाथोधेर्मङ्गलैश्च व्यजृम्भि । कीर्तिर्यच्चायिष्यते चेष्यते श्रीधर्मश्वेता चायितानेन वंशः ॥ ३ ॥ 3 ४ ७ ३. यद्यस्माद्धेतोरनेन भीमेन श्री राज्यादिलक्ष्मीश्चेष्यते वर्धयिष्यते । तथा धर्मश्वेता वर्धयिष्यते तथा संतानवर्धनाद्वंश चौलुक्यान्वयश्चायिता । अनेनास्य भाव्यर्थधर्मकाम संपदतिशय उक्तः । अत एव कीर्तिश्चायिष्यते । तस्माद्धेतोः क्ष्मा पृथ्वीप्याष्टि स्फीतोच्छु सितेत्यर्थः । महापुरुषोत्पत्तौ हि श्रीवृद्ध्यादिशुभसूचकाः क्ष्मोच्छ्रासादयः सदुत्पाताः स्युः । यद्वा । क्ष्मा पृथ्वीस्थो जनोध्यायिष्ट मुदोच्छ्वसिता । तथा राजा दुर्लभो मुदा कर्याभाज्याश्रितः । अत एवाप्यायि स्फीतीभूतः । तथा मङ्गलैश्च माङ्गलिक्यहेतुभिर्नान्दीतूर्यगीतादिभिश्चाजलधेजलधिमभिव्याप्य व्यजृम्भ्युल्लसितम् ॥ चेषीष्टायं नो गिरा चायिषीष्ट श्रेयोभिर्नचेति वाग्भिर्मुनीनाम् । रोदस्यावाचायिषातां तदानीमाचेषातां मन्त्रनादैश्च मन्द्रैः ॥ ४ ॥ ४. अयं भीमो नोस्माकं गिरा चेषीष्ट वर्ध्यतां तथा नोस्माकं श्रेयोभिश्च पुण्यैरपि कर्तृभिश्चायिषीष्ठेत्येवंविधाभिर्मुनीनां वाग्भिस्तदानीं पुत्रोत्पत्तिकाले रोदस्यावाचायिषातां व्याप्ते तथा मन्त्रैर्गम्भीरैर्मश्रनादैश्वाचेषाताम् || १ बी ध्यं प्रसा ५ डी 'शयोक्तिः । अ ८ सी नोच्छु ९ई वर्द्धतां. २ई ॥ मा ३ ए वेक्ष्यते. ४ ई. ६ सी डी 'ट स्पीतो'. ७ ई 'सिता । तथा रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy