________________
५७४
ध्याश्रयमहाकाव्ये
[दुर्लभराजः]
उवोषेव दिशो वह्निः मा विभायेव कम्पभृत् । न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥ १२३. वह्निर्दिश उवोषेव । नृपपराजयसूचकोत्पातोद्भवादिशोग्निना दह्यमाना इवालक्ष्यन्तेत्यर्थः । तथा कम्पभृत्क्ष्मा बिभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांबभूवुर्बलावलेपान्न भीताः॥
नेन्द्रायो विभयामास विभयांचवान्स किम् ।
प्रजियांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥ १२४. स्पष्टः । किं तु तै पैः सहाजौ रणे सति प्रत्युत प्रजिह्रयांचकार किमेभिरतिहीनैः सह युद्धेनेति लज्जितः ॥
जिह्वाय यद्यपि तथाप्यजगावं वभार सः ।
पुरो दिधक्षोबिभरांबभूवेशस्य विभ्रमम् ॥ १२५॥ १२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लजितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्बभाराधारयत् । अजगावशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीदिधक्षोर्दग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो ह्यजगावं पिनाकं बभार ॥
तत्राग्नाविव केपीपुसमिधो जुहुवुनृपाः ।
केपि स्वं जुहवांचक्रुर्विदांचक्रुर्न तद्धलम् ॥१२६ ॥ १२६. केपि नृपास्तत्राजावनाविवेपुसमिधः शरैधाञ् जुहुवुश्चि
१ ए नैन्द्रा . २ बी स्वं जहुवां. ३ ए सी डी जुहुवां .
१ ए °गावःश° २ बी सी डी रो दधिक्षु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org