SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ [ है० ३.४.४७. ] सप्तमः सर्गः । ५७३ विचारणया युद्धस्य नित्वान्ने पुर्न च सखीनीहांचक्रिरे बलाद्यवलेपात्सहायानपि नापेक्षितवन्त इत्यर्थः ॥ खमानछर्जुनावाशा नृपाणां तुमुलस्तथा । प्रजागरांचकाराशु ग्रसनाय यथान्तकः ॥ १२० ॥ १२०. नृपाणां तुमुलो व्याकुलो रवोत्युचैस्त्वात्तथा खमानर्छ व्याप तथाशा दिशस्तथोर्णुनाव व्याप यथान्तको प्रसनाय नृपाणामेव निगलनायाशु शीघ्रं प्रजागरांचकार । उद्यतोभूदित्यर्थः । गाढव्याकुलस्वरेण हि सुप्तोकस्मादेव जागर्ति ॥ अलक्ष्मीर्जागरामास न जागरांबभूव धीः । यत्तं जजागरुर्जेतुं समिन्धांचक्रिरे च ते ॥ १२१ ॥ १ 1 १२१. यदिति क्रियाविशेषणम् । तं दुर्लभं जेतुं यत्ते नृपा जजागरुरुद्येमुः समिन्धांचक्रिरे च तेजस्विनो बभूवुश्च । यत्तदोर्नित्याभिसंबन्धात्तत्तेषामलक्ष्मीजीगरामास । धीर्बुद्धिर्न जागरांबभूव । तस्यातिशक्तत्वेन केनाप्यजेयत्वात् ॥ समीधेग्निर्यथा यद्वदिन्धांचक्रे च वाडवः । ईधे तेजस्तथा तेषां विश्वमोषांचकार नु ॥ १२२ ॥ १२२. यथाग्निः समीधे जज्वाल यद्वच्च वाडवै इन्धांचक्रे तथा तेषां नृपाणां तेजः कोपाटोपोत्थप्रचण्डप्रताप ईधे । अत एव विश्व जगदोषांचकार नु ददाहेव || १ सी डी 'मिघांच'. १ बी सी डी 'मियांच. २ डी वुः । य० ३ ए बी ई व ईधांच. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy