SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ५७२ व्याश्रयमहाकाव्ये स्वस्रोदसीयांचक्रे दयामास च दासकान् । दयांबभूव कोशं च सोन्वयामास चाजलम् ॥ ११६ ॥ [दुर्लभराजः] ११६. स्पष्टः । परं स्वस्रोर्भगिन्योदयांचक्रे ददौ । स महेन्द्रः । आजलं जलमवधीकृत्यान्वयामास चानुययौ || दुर्लभोयांवभूवाथान्वयांचक्रे च नागराट् । वाटीषु नासांचक्राते नाप्सु चासांबभूवतुः ॥ ११७ ॥ I ११७. स्पष्टः । किं तु । अयांबभूव ययौ । अन्वयांचक्रे चानुययौ तथात्यौत्सुक्यगमनेन वाटीवमात्याद्युपवनेषु नासांचक्राते दर्शनको - तुकान्नस्थितौ ॥ सामासुर्वरीतुं तां येकासांचक्रिरेपिच । कुधा तान्दृष्ट्वा स कासामास दुर्लभः ॥ ११८ ॥ I ११८. ते नृपाः क्रुधाम्रेस्थुश्छलयुद्धाय स्थितास्तांश्च दृष्ट्वा स दुर्लभः कासामास कोपाद्विरुद्धमूचे । ये नृपास्तां दुर्लभदेवीं वरीतुमा सामासुः स्वयंवरमण्डपे तस्थुः कासांचक्रिरेपि च । दुर्लभवरणे रुष्टत्वाद्दुर्लभं प्रति विरुद्धानि वचांस्यूचुश्च ॥ कासांवभूवुस्ते दर्पात्समीहामासुराहवम् । ईहांवभूवुर्नामात्यान्नचेहांचक्रिरे सखीन् ॥ ११९ ॥ ११९. ते नृपा दुर्लभं प्रति कासांबभूवुस्तथा दर्पात्स्वबलाँद्य वलेपादाहवं युद्धं समीहामासुरीषुः । अत एवामात्यान्नेहांबभूवुर्युक्तायुक्त १ बी आशामा'. १ईने वा २ ए 'कान्निस्थि'. ३ई 'लाव. ४ई ससमी'. • Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy