________________
है०३.४.४६ ] सप्तमः सर्गः ।
५७१ चकासांचक्रतुस्तौ च चकासामासतुश्च ते । तेषामुद्राहहर्षेण स चकासांबभूव च ॥ ११४ ॥ ११४. स्पष्टः । कि तु तौ वरौ चकासांचक्रतुरनुरूपवधूसंयोगेन रेजतुस्ते च वध्वौ च । तेषां वधूवराणाम् । स महेन्द्रः॥
महेन्द्रः स्वांचकारानु यथावद्विससर्ज तौ। स्वमुक्षांप्रचकारेवामृतैस्तत्परिरम्भणात् ॥ ११५ ॥ ११५. महेन्द्रस्तौ वरौ स्वांचकार स्वमिवाचचार वाल्लभ्यातिशयेनात्मानमिवाज्ञासीदित्यर्थः । एके तु कर्तुः संबन्धिन उपमानावितीयान्ताक्विपक्यडाविच्छन्ति तन्मतेनात्र कर्तुः संबन्धिन उपमानाद्वितीयान्तात्स्वारिका । अनु पश्चाद्यथावदानसन्मानादिविसर्जनविध्यनतिक्रमेण विससर्ज । तथा तत्परिरम्भणाद्वरयोराश्लेषादमृतैः स्वमात्मानमुक्षांप्रचकारेव सुखातिरेकात्सिषेचेव । अथ च यो महेन्द्रो महाशक्रः स स्वममृतैरुक्षतीत्युक्तिलेशः ॥
चकासांचक्रतुः । चकासांबभूव । चकोसामासतुः । अत्र "धातोरनेक" [४६] इत्यादिना परोक्षायाः स्थान आम् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति । स्वांचकार ॥ अनुग्रहणं विपर्यासव्यवहितनिवृत्त्यर्थम् । तेन चकार चकासाम् । ईहां देवदत्तश्चक्रे । इत्यादि न स्यादित्यन्वित्यनेनासूचि । उपसर्गस्य तु क्रियाविशेषकत्वाध्यवधायकत्वं नास्ति । तेनोक्षांप्रचकार । इत्यादि स्यादेव ॥
१ बी °स्तौ तु चका. २ ए मुद्रह .
१ सी डी गाद्वयो. २ ई "कासमा . ३ बी श्चित्प्र. ४ ए पत्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org