SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ५७० व्याश्रयमहाकाव्ये [ दुर्लभराजः ] सत्यीकृता मनोरथा येन स महेन्द्रस्तत्तदर्थादि चौलुक्याय ददौ । कीदृक्सन् । अर्थापयञ् श्वेतयन्नश्वयन्न हो अर्थाः श्वेताश्वा अश्वतराचानीयन्तामित्यर्थान्धनानि श्वेताश्वान् श्वेततुरङ्गानश्वतरान्वे सरानुपलक्षणत्वाद्धस्त्यादींश्चाचक्षाणः ॥ गालोsयितृशाङ्गव सोथानावरयन्नदात् । कनिष्ठां भगिनीमन्यां नागराजाय जिष्णवे ॥ ११३ ॥ ११३. अथ स महेन्द्रो जिष्णवे जैत्राय नागराजाय दुर्लभानुजायान्यां कनिष्ठां भगिनीं लक्ष्मीनाम्नीमदात् । कीदृक् । अनाह्वरयन्नाह्वरति कुटिलीभवतीति अचि कुत्सिताद्यर्थे कपि च आह्नरकं कुटिलं वोक्यं कुटिलः पुरुषो वा । ऋजुस्वभावत्वेन कौटिल्याप्रियत्वात्तत्तं वानाचक्षाणः । श्लेषोपमामाह । गालोडेयितृशाङ्गवेति । गोडित लोडनम् । गुप्तं लोडितमिति तु क्षीरस्वामिना निरुक्तिः कृता । उभयत्रापि पृषोदरादित्वाद्गादेशे गालोडितं गोदोहनं विलोडनं वेत्यर्थः । गोपावस्थायां गालोडितं करोति गालोडयिता यः यथानाह्वरयन्कनिष्ठां भगिनीं सुभद्राख्यां जिष्णवेर्जुनायादात् ॥ शार्ङ्ग विष्णुः स पयो व्रतयन्ति । अन्नं व्रतयन्ति । इत्यत्र “व्रताद्" [४३] इत्यादिना निघू ॥ सत्यापित | अर्थापयन् । वेदापयन्तः । अत्र “सत्यार्थ” [४४] इत्यादिना आदन्तादेशः ॥ श्वतयन् । अश्वयन् । गालोडयितृ । अनाह्वरयन् । इत्यत्र “श्वेताश्व" [ ४५ ] इत्यादिनाश्व-तर- इत-कानां लुप् ॥ १ए यन्निश्चय २ ए वा कु. ३ ई तत्तत्त्वं वा. ४ सी डी 'डयतृ. ५ ई ° तं गोलो. ६ ई णिज् ॥• Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy