SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ [ है० ३.४.४२.] सप्तमः सर्गः । संभाण्डयन्ते संचीवरयमाणा मखाय ये । ते मत्रयन्तो ब्रह्माणस्तयोः पाणी अमिश्रयन् ॥ ११० ॥ ११०. ते ब्रह्माणो द्विजा मन्त्रयन्तो विवाहोचितमन्नानाचक्षाणाः सन्तस्तयोर्वधूवरयोः पाणी अमिश्रयन् संयुक्तीचक्रुः । ये यागेषु सदोद्यतत्वान्मखाय यागार्थ संभाण्डयन्ते भाण्डानि यज्ञोपकरणानि समाचिन्वन्ति । किंभूताः । संचीवरयमाणाश्चीवरं वस्त्रं समाच्छादयन्तो यजमानेभ्यो भिक्षयोपार्जयन्तो वा ।। संभाण्डयन्ते । अत्र "भाण्डात्' [ ४० ] इत्यादिना णिङ् ॥ संचीवरयमाणाः । अत्र “चीवरात्" [४१] इत्यादिना णिङ् ॥ अमिश्रयन् । मन्त्रयन्तः । अत्र “णिच्” [४२ ] इत्यादिना णिचू ॥ ये पयो व्रतयन्त्यन्नं व्रतयन्ति च ये द्विजाः। वेदापयन्तस्ते चक्रुर्मधुपर्कादिकं तयोः ॥ १११ ॥ १११. ते द्विजा वेदापयन्तो वेदमाचक्षाणास्तयोर्मधुपर्कादिकं मधुपर्क दना संपृक्तं मधु । तेनात्रोपचाराद्वधूवराभ्यां यन्मधुपर्कस्य प्राशनं तदुच्यते । तदादिर्यस्य प्रदक्षिणादापनादेविवाहाचारस्य तं चक्रुः। ये पयो दुग्धं व्रतयन्त्यस्माभिः पय एव भोक्तव्यमिति व्रतं कुर्वन्ति गृह्णन्ति वा तथा येन्नमस्माभिर्न भोक्तव्यमिति व्रतयन्ति च ॥ चौलुक्याय महेन्द्रोथ सत्यापितमनोरथः। अर्थापयश्वेतयन्नश्वयंस्तत्तत्तदा ददौ ॥ ११२॥ ११२. अर्थे तथा तदा विवाहकाले सत्यापिता: परिपूर्णीकरणेन १ ए पनोचस्ते. १ बी पकारक. २ ई संयुक्तं. ३ सी डी °थ तदा. ४ ए °णे च सत्यीकृत्या म'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy