SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५६८ व्याश्रयमहाकाव्ये [ दुर्लभराजः ] यदुतेक नामत्वेने करा शित्वादेकनक्षत्रत्वाच्च तवामुना सहातिश्रेष्ठो योग इति ॥ तपस्यताम् । अत्र " तपस: क्यन्" [ ३६ ] इति क्यन् ॥ 012 नमस्यन् । वरिवस्यन् । अचित्रीयत । इत्यत्र " नमः दिना क्यन् ॥ साथ हस्तयमानास्य कण्ठे चिक्षेप च खजम् । अश्वैरुत्पुच्छयमानैर्ययौ कुप्यच्च राजकम् ॥ १०८ ॥ १०८. अथैवं द्वास्थाभणनानन्तरं सा दुर्लभदेवी हस्तयमाना हस्तमुत्क्षिपन्त्यस्य दुर्लभस्य कण्ठे स्रजं वरमालां चिक्षेप च । तथा राजक नृपौघः कुप्यद्दुर्लभवरणेन क्रुध्यत्सदुत्पुच्छयमानैर्वेगेन प्रेरितत्वात्पुच्छानुर्ध्वमस्यद्भिरश्वैः कृत्वा ययौ च स्वयंवरमण्डपान्निर्जगाम च ॥ [ ३७ ] इत्या परिपुच्छयमानेभैरश्वैः पुच्छयमानकैः । द्राग्विपुच्छयमानोक्षरथैरागाच्च बन्धुता ।। १०९ ।। 3 १०९. बन्धुता दुर्लभस्य बान्धवौधो विवाहोत्सवविधय आगात् । कैः कृत्वा । परिपुच्छयमानेभैः पुच्छान्समन्तादस्य द्भिर्गजैस्तथा पुच्छयमानकैरज्ञातैः पुच्छानस्यद्भिरश्वैस्तथा विपुच्छयमानाः पुच्छान्विविधं विशिष्टं वास्यन्त उक्षाणो वृषा येषु ते तथा ये रथास्तैश्च ॥ हस्तयमाना । इत्यत्र “अङ्गात् " [३८] इत्यादिना णिङ् ॥ उत्पुच्छयमानैः । परिपुच्छयमान । विपुच्छयमान । पुच्छयमानकैः । अन्र "पुच्छाद्” [३९] इत्यादिना णिङ् ॥ १ सी डी 'च्छान्यूर्ध्व . Jain Education International २ सी डी 'द्विरुचैः कृ. ३ ए इ विषये . For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy