SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ [ है० ३.४.३५.] सप्तमः सर्गः । ५६७ श्रीन दुःखायते यत्र वाण्या वैरायते न च । शब्दायितयशःशङ्खः सोयं श्रीगूर्जरेश्वरः ॥ १०६ ॥ १०६. सोयं प्रत्यक्ष: शब्दायितयशःशङ्खः सशब्दीकृतकीर्तिकम्बुर्गुर्जरेश्वरोस्ति । यत्र श्री राज्यादिलक्ष्मीन दुःखायते न्यायोत्साहादिगुणैरस्मिन्सुखेन सदा वासित्वान्न दुःखमनुभवति । न च नापि वाण्या सह वैरायते वैरं करोति । स्वभावाभिथो विरुद्ध अपि श्रीवाण्यौ विरोधत्यागेन यत्र तिष्ठत इत्यर्थः । अनेन च यदि त्वममुं वृणोषि तदा त्वमपि श्रीरिवात्र न दुःखायसे नापि सपत्नीभिः सह वैरायसे तस्मादमुं वृणीष्वेति दुर्लभदेवी ज्ञापिता ॥ फेनायन्ते । ऊष्मायन्ते । बाप्पायन्ते । धूमायिते । इत्यत्र “फेनोप्म" [३३] इत्यादिना क्यङ् ॥ सुखायसे । दुःखायते । अत्र "सुखादेः" [३४] इत्यादिना क्यङ् ॥ शब्दायित । वैरायते । अत्र "शब्दादेः कृतौ वा" [३५] इति वा क्यङ् ॥ नमस्यन्वरिवस्यंश्वाचित्रीयत तपस्यताम् । यश्च दुर्लभराजं तं नाम्नामुं कि वुवर्षसि ॥ १०७॥ १०७. अमुं नाम्ना दुर्लभराजं किं वुवूर्षसि । यश्च । चः पूर्ववाक्यापेक्षया समुच्चये । नमस्यन्नमस्कुर्वन्वरिवस्यंश्च वरिवः कुर्वन्सेवमानश्च संस्तपस्यतां तपः कुर्वतां कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् । तपोधनानामचित्रीयताहो राजाधिराजस्याप्यस्य कीदृग्विनय इत्याश्चर्यमकरोत् । नाम्ना दुर्लभमिति नामनिर्देशेन दुर्लभदेवीदं ज्ञापिता १ सी डी श्रीगुर्ज. १ ए सितत्वा. २ डी यन्ते वै. ३ डी वाण्योर्विरो'. ४ सीमायते. डी मायन्ते वै. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy