SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५६६ व्याश्रयमहाकाव्ये गहने गहनायन्ते न रोमन्थायितैणके । व्याधा अप्याज्ञया यस्य विन्ध्येशे रमसेत्र किम् ।। १०४ ॥ १०४. अत्र विन्ध्येशे किं रमसे । यस्याज्ञया हेतुना व्याधा अपि मृगयाजीविनोपि गहने वने न गहनायन्ते गहनाय मृगादिवधाय पापकर्मणे न क्रामन्ति । अत एव किंभूते गहने । रोमन्थायिता मृत्युभयाभावेन सुखितत्वाद्रोमन्थमभ्यवहृतं द्रव्यमुद्रीये चर्वितवन्त एणा मृगा यंत्र तस्मिन् । एतेने तस्यातिधार्मिकत्वोक्तिः ॥ । पटपटयतः । लोहितायत् । चर्मायतः । इत्यत्र “डाज्” [३०] इत्यादिना षिक् ॥ कष्टायमानः । कक्षायते । कृच्छ्रायते । सत्रायते । गहनीयन्ते । अत्र “कष्ट " [३१] इत्यादिना क्यङ् ॥ रोमन्थायित । इत्यत्र "रोमन्थाद् " [३२] इत्यादिना क्यङ् ॥ फेनायन्ते बाष्पायन्ते चोष्मायन्ते च यद्विषः । धूमायावोढुं किमन्त्र सुखायसे ।। १०५ ॥ [दुर्लभराजः] १०५. अग्नौ विवाहाग्निकारिकावहौ धूमायिते यवादिक्षेपेण धूममुद्रमति सत्यन्ध्रेन्ध्रदेशाधिपे विषय उद्घोढुं किं सुखायसे सुखमनुभवसि । यद्विषः फेनायन्ते बाष्पायन्ते चोष्मायन्ते च युद्धादिना - त्यन्तं खेदितत्वात्फेनान्मुखे फेनबुदान्वाप्पांश्च पराभवोत्थानि नेत्रवायूँष्मणच संतप्तोच्छ्रासानुद्वमन्ति ॥ १ एन्थायतै. १ सी डी यत्रास्मि. ४ ए बी सी डी 'नायते. Jain Education International २ बी सी डी ई न यस्या'. ३ बी टायितः. ५ सी डी ते यु. ६ सी डी 'यूष्माण . For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy