SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ [है० ३.४.४७.] सप्तमः सर्गः । ५७५ क्षिपुः । अग्नौ क्षिप्ताः शरा रणे स्वमेव भस्मीचक्रुर्न तु शत्रुवधादि स्वकार्य चक्रुरित्यर्थः । केपि च नृपाः स्वमात्मानं जुहवांचकुर्न तबलं दुर्लभसैन्यं विदांचक्रुरियत्परिमाणमिति परिच्छिन्नवन्तः । शश्वविनाशनेनात्मानमेव विनाशितवन्त इत्यर्थः ॥ विदांबभूवुनैव स्वं विदामासुश्च नापरम् । रजोभिर्विविदुर्नाक विदांकुर्वन्तु किं जनाः ॥ १२७ ॥ १२७. जना भटलोका रजोभिः कृत्वा स्वमात्मीयं नैव विदांबभूवुर्ज्ञातवन्तो न चापरं शत्रु विदामासुर्न चार्क विविदुः । अतश्च रोदस्यो रजोभिरावरणेन सुज्ञेयानामप्येषामदर्शनास्किं विदांकुर्वन्तु जानन्तु । न किमपीत्यर्थः ॥ अमी विदन्तु मे शक्तिमध्यासीदिति दुर्लभः । अस्पाक्षीत्पाणिना श्मश्रूण्यस्पृक्षदिषुधिं ततः ॥ १२८ ॥ १२८. पूर्वार्धं स्पष्टम् । ततश्चिन्तानन्तरं स्वशक्त्यवलेपेन श्मश्रूणि दंष्ट्रिकां पाणिनास्पाक्षीत्ततश्चेषुधिं शराकर्षायास्पृक्षत् ॥ निषङ्गादिषुमकाक्षीदकक्षदथ कार्मुकम् । यां लीलामर्जुनोम्राक्षीत्ताममुक्षदसौ तदा ॥ १२९ ॥ १२९. अक्राक्षीदाकृष्टवान् । यां लीलां शोभामर्जुनोम्राक्षीत्पस्पर्श तां लीलां तदा कार्मुकाकर्षणकालेसौ दुर्लभोमृक्षत् । शिष्टं स्पष्टम् ॥ अद्राप्सुर्ये भुजस्थाम्ना मन्त्रास्त्रैरपंश्च ये ।। स तैः कृतान्तमत्राप्सीदतृपयशसा न हि ॥ १३० ॥ १३०. स्पष्टः । किं तु । अद्राप्सुर्गर्वं चक्रुः । तैर्नपैः कृत्वा स १ डी नै श०. २ ई °दि का. ३ बी सी डी जुहुवां. ४ ई °ति न प. ५ डी वुन शा. ६ ई दरोर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy