________________
५५६
व्याश्रयमहाकाव्ये . [दुर्लभराजः] अटाट्यमाना दुर्लभाददृक्षया भृशं पुनः पुनर्वा यान्ती तथारार्यमाणेरहमहमिकया दुर्लभदर्शनाय भृशं पुनः पुनर्वा गच्छद्भिोकैर्दिता संमर्दैन पीडिता स्वकृशोदरस्तनदर्शनेन राज्ञो रागोत्पादनायोदरस्तनपिधायकं वस्त्रं लोकसंमदेवशात्पतन्नारक्षदित्यर्थः ॥
अशाश्यमानं मोमूत्र्यमाणं काप्युज्झितुं शिशुम् ।
असोमूत्र्यत सोसूच्यमाने तस्यागमोत्सवे ॥ ८५ ॥ ८५. तस्य दुर्लभस्यागमोत्सवे सोसूच्यमाने नान्दीतूर्यनिर्घोषादिनाभीक्ष्णं भृशं वा ज्ञाप्यमाने दुर्लभदर्शनेत्युत्सुकत्वात्कापि शिशुमुज्झितुमसोसूज्यते प्रायतत । यतोशाश्यमानं भृशमभीक्ष्णं वा भुञ्जानं मोमूत्र्यमाणं भृशमभीक्ष्णं वा मूत्रयन्तम् ॥
दृशौ प्रोर्णोन्यमानां नीरङ्गी काप्युदक्षिपत् ।
चङ्गम्यमाणा जङ्गम्यमानां चाग्रेभ्यतर्जयत् ॥ ८६ ॥ ८६. कापि कुलाङ्गना दृशौ प्रोर्णोनूयमानां भृशमभीक्ष्णं वाच्छादयन्तीं नीरङ्गी मुखाच्छादकवस्त्राञ्चलमुदक्षिपहुर्लभावलोकनविनत्वादूर्ध्व चिक्षेप । तथा चङ्गम्यमाणा कुटिलं क्रामन्त्यग्रे पुरो जङ्गम्यमानां कुटिलं गच्छन्ती स्त्रीमभ्यतर्जयच्च ॥ कण्डूयन्ती । महीयमाना । इत्यत्र " धातोः " [ 0] इत्यादिना यक् ॥
लालस्यमाना । इत्यत्र " व्यञ्जनादे:०" [९] इत्यादिना यङ् ॥ पक्षे । " भृशं पुनः पुनर्वा लसन्ती ॥ व्यञ्जनादेरिति किम् । भृशमैक्षत ॥ एकस्वरादिति
१ डी मूत्रमा,
१ सी डी दनव. २ ए वी सी ई °त प्रयते । य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org