SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ [ है० ३.४.७.] सप्तमः सर्गः। अजुगुप्सत । अतितिक्षत । इत्यत्र “गुप्तिजः" [५] इत्यादिना सन् ॥ विचिकित्सुः । अचिकित्स्ये । अत्र “कितः" [६] इत्यादिना सन् ॥ शीशांसति । दीदांसमानाम् । मीमांसमानाम् । बीभत्समानाम् । अत्र "शान्दान्” [७] इत्यादिना सन् दीर्घश्चैषां द्विवचने सति पूर्वकारस्य ॥ महीयमाना नारीषु कण्डूयन्ती मुधा श्रवः । लालस्यमाना तमनु दोर्मूलं काप्यदर्शयत् ॥ ८२ ॥ ८२. कापि कामिनी तं दुर्लभमनुलक्ष्यीकृत्य मुधा निरर्थकं श्रवः कर्ण कण्डूयन्ती सती दोर्मूलं कक्षाधस्तनप्रदेशं संक्षोभना(णा?)दुर्लभमेवादर्शयत् । कीदृक् । लालस्यमानात्यर्थ सविलासा तथा नारीषु मध्ये महीयमाना सौन्दर्योत्कर्षेण पूजा ॥ भृशं पुनः पुनः कापि लसन्ती भृशमैक्षत । भृशं चकासतं जाजाग्रीयमाणस्मरा नृपम् ॥ ८३ ॥ ८३. कापि कामिनी भृशं चकासंतं शोभमानं नृपं दुर्लभं भृशमैक्षत । कीदृक्सती । जाजाग्रीयमाणस्मरात्यर्थमभीक्ष्णं वा जागरूककामात एव भृशमत्यर्थं लसन्ती विलसन्ती दुर्लभक्षोभना(णा ?)य गमनादिविशेषं कुर्वतीत्यर्थः । तथा पुनः पुनर्लसन्ती च ॥ काचिदंसात्पतद्दादरियमाणोदरांशुकम् ।। नावाव्यताटाव्यमानारार्यमाणैस्तदार्दिता ॥ ८४ ॥ ८४. तदा प्रवेशकाले काचिदादरियमाणोदरांतिकृशोदरी कामिन्यंसात्स्कन्धात्पतदंशुकं नावाव्यत भृशमभीक्ष्णं वा नारक्षत् । कीदृक्सती। १ बी सी डी ई क्षास्त. २ सी डी "तं तं शो'. ३ सी डी जागुरू. ४ई ले दाद. ५सी डी रा इति°. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy