SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ [है०३.४.११] सप्तमः सर्गः । किम् । भृशं चकासतम् ॥ केचिजागर्तेरिच्छन्ति । जाजाग्रीयमाण ॥ सर्वसाद्धातो. रायादिप्रत्ययरहितात्केचिदिच्छन्ति । आवाव्यत । दादरियमाण ॥ अटाव्यमाना । अरार्यमाणैः । असोसूत्र्यत । मोमूत्र्यमाणम् । सोसूच्यमाने । अशाश्यमानम् । प्रोर्णोनूयमानाम् । अत्र "अव्यर्ति" [१०] इत्यादिना यङ् ॥ चङ्कम्यमाणा । जङ्गम्यमानाम् । अत्र “गत्यात्कुटिले" [११] इति या ॥ दृशा जेगिल्यमानेव तं लावण्यसुधामयम् । सासद्यमाना कामेन काप्यलोलुप्यत त्रपाम् ॥ ८७॥ ८७. कापि कामिनी त्रपामतिसानुरागदृष्टिपरपुरुषालोकोत्थल. ज्जामलोलुप्यतात्यन्तं विलोपागर्हितं चिच्छेद । कीहक्सती । कामेन सासद्यमाना गर्हितं सद्यमाना निर्दयं पीड्यमानेत्यर्थः । अत एव लावण्यमेवाप्यायकत्वात्सुधा सा प्रकृता यत्र तं लावण्यसुधामयं केवलसौन्दर्यघटितं तं दुर्लभं दृशा जेगिल्यमानेव सानुरागं निरन्तरं विलोकनाद्गर्हितं गिलन्तीव । यापि कामेन भोजनाभिलाषेण सासद्यमाना सती स्थूलंकवलाहारेण निजेगिल्यमाना स्यात्सापि “आहारे व्यवहारे च त्यक्तलेजः सदा भवेत्” इति वचनाद्बहुभक्षणोत्थां त्रपां लुम्पति ॥ काप्यचर्यताजञ्जभ्यताजञ्जप्यतापि च । दन्दश्यमाना दन्दह्यमाना नु तदवीक्षणे ॥ ८८॥ ८८. कापि कामिन्यचञ्चूर्यत तदर्शनौत्सुक्येन स्वाभाविकलीलागतित्यागेन शीघ्रगत्याश्रयणाद्गर्हितमर्गमत् । अजअभ्यत च कामो . १ बी सी डी "न्ति । अवा. २ बी सी डी माणा ॥. ३ सासद्यमानेत्यारभ्य कामेनेत्यन्तो ग्रन्थांश ई संज्ञके पुस्तके न दृश्यते. ४ डी लकेव'. ५ ए सी डी लज्जा स. ६ बीमत ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy