________________
५५०
व्याश्रयमहाकाव्ये [दुर्लभराजः] ७०. स दुर्लभः कापि कस्मिन्नपि स्थानेश्वमुपारंस्त । अत्र रमिरन्तभूतण्यर्थः सकर्मकः प्राप्त्युपसर्जनो वा सकर्मकः । आरुह्य गतिपञ्चकेनाखेलयत् । क्वचिच्चेभेन कीरोहयत । आरोहदिभं स: । न्यग्भवन्तं न्यगभावयेत् । स एवं विवक्षितवान् । नाहमारोहं किं तु स्वयमेवारुह्यतेभः स्वयमेव न्यगभूदित्यर्थः । ततः स्वयमेवं वारूढं न्यग्भूतं स प्रायुत णिग् । “वाकर्मणाम्" [ २.२.४] इत्यादिना कर्तुर्वा कर्मत्वात् । इभेनेभं वा स आरोहयत्पुनः । स एवं विवक्षितवान्नाहमारोहयं किं विभः स्वयमेवारोहयत न्यगभूदित्यर्थ इति पञ्चम्यवस्थानन्तरं पुनरपि स्वयमेवारोहयमाणमिभं स प्रायुत । पुनर्णिग् । न्यगभावयदित्यर्थः । कापि कस्मिंश्च प्रदेशे मित्राणि रथ आसयन्नुपवेशयन्सन्सकथाः साश्चर्याणि पूर्वपुरुषावदातवर्णनान्यकारयत ॥
स्खेदं शोषयमाणोभूच्चलयन्वीरुधस्तदा। पताकाः कम्पयन्वायुर्मुदे मध्विव भोजयन् ॥ ७१॥ ७१. तदा दुर्लभस्य गमनकाले वायुर्मुदेभूत् । कीहक्सन् । स्वेदं श्रमसंतापोत्थं धर्म शैत्याच्छोषयमाणस्तथा वीरुधो लताश्चलयन् । एतेन सौरभोक्तिः । तथा पताका रथादिस्था वैजयन्तीमुंदुत्वात्कम्पयनतश्चात्यन्तं सुखहेतुत्वान्मधु भोजयन्निव । एतेनास्य कार्यसिद्धिसूचकं शुभशकुनमुक्तम् ॥
तस्याभ्युदस्थुवारानाशयन्तो मृगार्भकान् ।
बोधयन्तोध्यापयन्तो बटून् ग्रन्थान्वनर्षयः॥ ७२ ।। ७२. वनर्षयस्तापसास्तस्य दुर्लभस्याभ्युदस्थुराश्रमगुरुत्वेनाभिमु१ डी टूनन्वि. १ सी डी र्थः प्रा, २ ई °यन्स ए. ३ सी मेवा'. ४ बीई व चारू'. ५ सी डी चमाव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org