SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ [है० ३.३.१०१.] सप्तमः सर्गः। ५४९ अभिक्षिपन्तो हस्ताग्रं गन्धेभाः प्रवहन्मदाः । सैन्येस्यापरिमृष्यन्तोन्योन्यं पर्यवहन्पृथक् ॥ ६८॥ ६८. अस्य दुर्लभस्य सैन्ये गन्धेभा गन्धप्रधाना गजा हस्ताग्रं शुण्डाग्रभागमभिक्षिपन्त इतस्ततोभिमतं प्रेरयन्तः सन्तः पृथग्भिन्नाः पर्यवहन्समन्ताजग्मुः । यतोन्योन्यमपरिमृष्यन्तोसहमानाः। एतदपि कुत इत्याह । यतः प्रवहन्मदाः ॥ पराकुर्वन् । अनुकुर्वन् । इत्यत्र “परा" [१०१] इत्यादिना परसै ॥ प्रतिक्षिपन् । अभिक्षिपन्तः । अतिक्षिपन् । इत्यत्र "प्रत्यभि०" [१०२] इ. त्यादिना परस्मै ॥ प्रवहत् । इत्यत्र “प्राद्वहः" [१०३] इति परस्मै ॥ परिमृष्यन्तः । पर्यवहन् । इत्यत्र “परेम॑षश्च" [१०४] इति परस्मै ॥ ययावविरमन्पथ्यारमद्भिर्नर्मबन्धुभिः । समं परिरमन्नन्योदन्तादुपरमन्त्रयम् ॥ ६९ ॥ ६९. अयं दुर्लभ: पंथि ययौ । कीदृक्सन् । अविरमन्ननवरतं गच्छंस्तथारमद्भिः क्रीडद्भिर्नर्मबन्धुभिर्नर्मसचिवैः समं परिरमन्परिखेलंस्तथान्योदन्तात्स्वयंवरनायिकोदन्तादन्यस्या वार्ताया उपरमन्निवर्तमानः स्वयंवरकन्यकोदन्तमेव कुर्वन् ॥ कापि सोश्वमुपारंस्तेभेनारोहयत कचित् । काप्यासयन् रथे मित्राण्यकारयत सत्कथाः॥७॥ १एन्येस्य प. १ ए प्रावृह. २ ए परिय. ३ ई मस. ४ बी डी नायको. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy