________________
५४८
ध्याश्रयमहाकाव्ये
[दुर्लभराजः]
कृष्णं मिथ्याकारयमाणा । इत्यत्र “मिथ्या" [९३] इत्यादिनात्मने ॥
पर्यमोहयत श्रियम् । आयामयमानोर्थिनः । आयासयत श्रियम् । अपाययतामृतम् । अधापयत मधूनि । वादयमानोर्थिनः । अवासयत गाम् । कूर्म दमयमानाम् । प्रतापेनादयांचके । लोकं रोचयमानः । कं नानर्तयत । इत्यत्र "परिमुहा” [९४] इत्यादिनात्मने ॥ अदेनेच्छन्त्येके । खङ्गेनादयत् ॥
ईजे । चक्रे । अन्न "ईगितः” [९५] इत्यात्मने ॥ फलवतीत्येव । साधूनयजत् । केचित्त्वीगितो धातोर्णिगर्थ एव प्रेषणाध्येषणविशेषे प्रतिविधाननाम्नि वर्तमानादात्मनेपदमिच्छन्ति । व्यधत्त । व्यधापयतेत्यर्थः ॥ तत्त्वं जानानः । अत्र "ज्ञोनुपसर्गात्" [९६] इत्यात्मने ॥ अनुपसर्गादिति किम् । तत्प्रजानतः॥
एकान्तमपावदिष्ट । इत्यत्र "वदोपात्" [९७] इत्यात्मने ॥ समयच्छत शुद्धताम् । श्रियमुद्यच्छमानाः । आयुरायच्छमानाः। अत्र "समुद् [९८] इत्यादिनात्मने ॥ अग्रन्थ इति किम् । कथामुद्येमुः॥
स्वान् द्विषः परिमोहयमानः । स्वमात्मानं पर्यमोहयन् । इत्यत्र "पदान्तरगम्ये वा" [९९] इति वात्मने ॥ भवन् । इत्यत्र “शेषात्परस्मै" [१००] इति परस्मैपदम् ॥
प्रास्थितेन्द्र पराकुर्वन्ननुकुर्वन्स पूर्वजान् ।
सानुजोतिक्षिपन्सेनां तद्भूल्याकं प्रतिक्षिपन् ॥ ६७ ॥ ६७. स दुर्लभः सानुजो नागराजसहितः प्रास्थित । कीदृक्सन् । सेनामतिक्षिपन् । गमनायात्यन्तं प्रेरयन्नत एवातिबाहुल्याच्च तद्रूल्या सेनारेणुनार्क प्रतिक्षिपन्नाच्छादयन्नित्यर्थः । तथेन्द्र पराकुर्वन्महा न्यकुर्वन्नत एव पूर्वजान्मूलराजादीननुकुर्वन् ॥
१ ए लोकान्तरो'. २ सी डी विशेषणप्र. ३ ए नेपदम् । उप. ४ ए वतन्न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org