________________
[ है० ३.३.९३ ] सप्तमः सर्गः ।
६४. स दुर्लभो वसतिमार्गप्रकाशकसुगृहीतनामधेयश्रीजिनेश्वरसूरिभिजैनधर्मे प्रतिबोधितत्वात्तत्त्वम् । जातावेकवचनम् । जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्यानि नव तत्त्वानि जानानो यथावस्थितान्यवबुध्यमानः संस्तत्तत्त्वं प्रजानत: साधू जैनमुनीनयजत्सत्कारसन्माननादिनाचितवान् । अत एवैकान्तमेकान्तवादं बौद्धादिसिद्धान्तपावदिष्टानेकान्तवादित्वानिराकार्षीत् । अत एव च शुद्धतां पापमलापनोदेन निर्मलतां समयच्छतात्मना सह संबद्धीचक्रे ॥
आयुरायच्छमाना उद्यच्छमानाः श्रियं नृपाः।
अस्योद्येमुः कथां स्वं हि नात्मानं पर्यमोहयन् ॥६५॥ ६५. नृपा अस्य दुर्लभस्य कथामवदातवर्णनाग्रन्थमुद्येमुः कथाग्रन्थ उद्यमं चक्रुरित्यर्थः । यत आयुरायच्छमाना दुर्लभावर्जनयाँ जीवितव्य दीर्घाकुर्वन्तः । तथा श्रियमुद्यच्छमाना राज्यलक्ष्मीविषयमुद्यमं कुर्वन्तो जीवितव्यं च श्रियं च वाञ्छन्त इत्यर्थः । अत एव स्वमात्मीयमात्मानं हि स्फुटं न पर्यमोहयन्न विचेतनीचक्रुरात्मानमजानन्नित्यर्थः । यद्वा । सर्वस्वापहाराद्युत्थाधिव्याधिपीडाया अभावेन न मूर्छयामासुः ।।
परिमोहयमानः स्वान् द्विषोये दोष्मतां भवन् ।
राज्ञाहायि महेन्द्रेण स्वसुः सोथ स्वयंवरे ॥ ६६ ॥ ६६. अथ स दुर्लभः स्वसुः स्वयंवरे महेन्द्रेण राज्ञा मरुदेशेशेनाहाय्याकारितः । कीदृक् । दोष्मतामग्रे धुरि भवन्वर्तमानोत एव स्वान्द्विषः परिमोहयमानस्तीव्रप्रहारादिपीडया मूर्छयन् ॥
१ सी शसु. २ सीभिर्जिन. ३ सी जीव. ४ सी ञ् जिन. ५ बी सी डी ई न्माना. ६ सी डी या दी. ७ बी सी डीई व्यं श्रि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org