SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [दुर्लभराजः] स आयामयमानो वादयमानोर्थिनः किल । मधून्यधापयत किं किमपाययतामृतम् ॥ ६१ ॥ ६१. स दुर्लभः । किलेति सत्ये । आर्थिनो याचकान्कि मधून्यधापयत पाययामास किममृतं सुधामपाययत । कीदृक्सन् । आर्थिन आयामयमानः । पूर्ववत्कर्मकर्तृविवक्षयाकर्मकाद्धातोर्णिगि महादानेन वर्धयंस्तथा वादयमानः प्रियमालपन् । कूर्म दमयमानां गामवासयत दोष्ण्यसौ । प्रतापेनादयांचवे द्विषः खड्न चादयत् ॥ ६२ ॥ ६२. असौ दुर्लभः प्रतापेन को द्विषो दैयाद्यन्यायिशत्रूनादयांचक्रे खङ्गेन च कर्जा द्विष आदयत् । कानपि द्विषः प्रतापेनैव क्षयं नीतवान्कानपि युद्धेनेत्यर्थः । अत एव कूर्म कमठरूपिणं विष्णुं दमयमानां गुरुत्वात्खेदयन्ती गां पृथ्वी दोष्णि भुजादण्डेवासयंत स्थापितवान् । सर्वशत्रूच्छेदेनाखिलपृथ्वीं ववशीचकारेत्यर्थः ॥ लोकं रोचयमानोसौ नानर्तयत के मुदा। चक्रे धर्म सुरानीजे व्यधत्तायतनानि च ॥६३ ॥ ६३. असौ दुर्लभो धर्म दानादिकं चक्रे । तथा सुरानर्हदादिदेवानीजे पूजितवानायतनानि प्रासादान् व्यधत्त च कारितवांश्च । अत एव लोकं रोचयमानः प्रीणयन् के मुदा हर्षेण नानर्तयत ॥ स साधूनयजत्तत्त्वं जानानस्तत्पजानतः। अपावदिष्ट चैकान्तं समयच्छत शुद्धताम् ॥ ६४॥ १ बी वक्षाया. २ ए मद्धा. ३ ई दै. ४ ए °य स्था', Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy