SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.९२.] सप्तमः सर्गः। ५४५ ५९. अथ चामुण्डराजस्यात्मसाधनानन्तरं दुर्लभो निर्भीषानपि निर्भयानप्यरीनभीषयत भीतवतः प्रयुक्तवान् । यद्यस्मात्स उच्चकैः शक्रमप्यभापयत । यतो भाप्यत आभ्यां भापनौ भुजौ यस्य सः । अभीषयत । इत्यत्र “बिभेतेभीष्च" [१२] इत्यात्मने । अस्य च भीषादेशः॥ पक्षे । अभापयत । इत्यत्रान्तस्याच्चाकर्तर्यपि । यद्यप्यत्र परमार्थतो भापनभुजाभ्यां कृत्वा भय तथाप्यवयवावयविनोरभेदेन भुजावपि दुर्लभ एवेति प्रयोतुरेव स्वार्थ इत्यात्वं स्यात् ॥ अकर्तर्यपीत्येव । निर्भीषान् । भापन । अत्र न करणादयं किं तु करणाझापनमिति प्रयोक्तुः स्वार्थ एवाकर्तर्यप्याकारः ॥ मिथ्याकारयमाणास्य कीर्तिः कृष्णं हिमोज्वला । पर्यमोहयतात्यन्तमायासयत च श्रियम् ॥ ६० ॥ ६०. अस्य दुर्लभस्य हिमोज्वला कीर्तिः श्रियं कृष्णभार्यामत्यन्तं पर्यमोहयत कृष्णस्यानुपर्लक्ष्यत्वेन व्यपगमाद्याशङ्कया परिमुह्यन्ती मू छन्ती प्रायुतात्यन्तमायासयताखेदयच्च । यतः कृष्णवर्णत्वात्कृष्णं विष्णु मिथ्याकारयमाणा कृष्णं मिथ्या कूटं करोत्युञ्चारयति लोकस्तं प्रयुजाना कृष्णवर्णापह्नवाल्लोकेन कृष्णमन्वर्थाभावरूपदोषदुष्टमसकृत्पाठयन्तीत्यर्थः । अत्र च व्याख्यानेाल्लोकेनेति ज्ञेयम् । यद्वा । कीर्तिः कृष्णं कृष्णवर्णापह्नवेन मिथ्या कूटं करोति विदधाति प्रयोक्तैवं विवक्षते नेयं कृष्णं मिथ्याकरोति किं तु कृष्णः स्वयमेव मिथ्याक्रियते मिथ्याभवति तं कीर्तिः प्रयुञ्जाना । एवं विवक्षायां णिगि सत्यपि मिथ्याकारयमाणासकृन्मिथ्यावतीत्यर्थः । तात्पर्येण कृष्णं श्वे. तयन्ती ॥ १ सी डी जस्य चात्म'. २ ए सी भीष्वा” इ. ३ सी डी णत्वस्या. ४ बी लक्षत्वे. ५ ई. यं मि. ६ डी कुर्वन्तीत्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy