________________
५४४
घ्याश्रयमहाकाव्ये [दुर्लभराजः] द्विषोपलापयमानं स राज्ये न्यस्य दुर्लभम् ।
तपसा लापयांचके नोदलापयत स्वमु ॥ ५७ ॥ ५७. उ इति चामुण्डराजीयमहावदातश्रवणाय लोकानामभिमुखीकरणे । अहो लोकाः स राजा द्विषोपलापयमानमभिभवन्तं दुर्लभं दुर्लभराजं राज्ये न्यस्य तपसानशनेन लापयांचक्रे परैरात्मानमपूजयत् । अत एव स्वमात्मानं नोदलापयत नावञ्चयत ॥
तेन स्मालाप्यते विस्मापयमानैस्तपोगुणैः । विस्मापनकृता शुक्लतीर्थे गत्वाधिनर्मदम् ॥ ५८ ॥ ५८. अधिनर्मदं नर्मदानद्यां शुक्लतीर्थे तिलादिकृष्णवस्तुन इवात्मनोपि पापमलक्षालनेन नैर्मल्यहेतुत्वाच्छुक्लं यत्तीर्थं तस्मिन् गत्वा तेन चामुण्डराजेनालाप्यते स्म परैरात्मा पूज्यते स्म । यतो विस्मापयमानैरतितीव्रत्वेन लोकं विस्मयमानं प्रयुञ्जानैस्तपोगुणैनिस्पृहतादिभिः कृत्वा विस्मापनकृताश्चर्यकारिणा । नर्मदायां शुक्लतीर्थे तपोभिरास्मानं साधितवानिति तात्पर्यार्थः ॥
तपसा लापयांचक्रे । द्विषोपलापयमानम् । स्वं नोदलापयत । इत्यत्र "लोडिनो (न:)" [९०] इत्यादिनात्मन आच्चान्तस्याकर्तर्यपि ॥ अकर्तर्यपीति किम् । तपोगुणैस्तेनालाप्यते ॥
विसापयमानैः । अत्र “स्मिङ' [९१] इत्यादिनात्मन आञ्चान्तस्याकर्तयपि ॥ अकर्तर्यपीत्येव । विस्मापन ॥
अभीषयत निर्भीषानप्यरीनथ दुर्लभः । यद्भापनभुजः शक्रमप्यभापयतोचकैः ॥ ५९॥
१ ए इ तश्राव. २ सी डी स्पृहिता'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org