SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.१०५.] सप्तमः सर्गः। ५५१ खमुत्थिताः । किंभूताः। कारुणिकत्वान्मृगार्भकान्नीवारानाशयन्तो भक्षयन्तस्तथा बटून् ग्रन्थानध्यापयन्तः पाठयन्तो बोधयन्तोर्थतोवगमयन्तश्च ॥ धुरा धुरं योधयद्भिः प्रावयद्भिरनोपथम् । द्रावयद्भिर्दुमूलानि स्रावयद्भिर्लता रसम् ॥ ७३ ॥ जनयद्भिः कलकलं नाशयद्भिः सरित्स्वपः । अविच्छायरलैः सोथ पुरी गोपायतो मरुम् ।।७४ ॥ ७३, ७४. स दुर्लभो मरुं मरुदेशं गोपायतो रक्षतो नडुलदेशाधिपस्येत्यर्थः । महेन्द्रस्य पुरी बलैः कृत्वाविच्छायद्ययौ । किंभूतैः । औत्सुक्येन युगपदनेकरथानां प्रेरणाद्भुरा सह धुरं योधयद्भिरा. स्फालयद्भिरत एवानः । जाताचेकवचनम् । रथान् । न पथोपथं "पथः संख्याव्ययोत्तर” इति क्लीबता । तदपथममार्ग प्रावयद्भिः प्रापयद्भिरत एव द्रुमूलानि रसं द्रावयद्भिर्घर्षणेन क्षारयद्भिस्तथा लता वल्ली रसं स्रावयद्भिः पीलनेन क्षारयद्भिस्तथा कलकलं जनयद्भिस्तथातिप्राचुर्यात्सरित्स्वपो नाशयद्भिः ॥ सोतिधूपायद तं पनायन्नुचितं व्यधात् । लक्षस्य पणमानेषु पणायन्कोटिमुद्भटः ॥ ७५ ॥ ७५. स महेन्द्र उचितं दुर्लभस्य योग्यं महाविस्तराभिमुखगमनदानसन्मानादि व्यधात् । कीदृक्सन् । उद्भट उदारोत एव लक्षस्य पणमानेषु हस्त्यश्वालंकारादिप्राभृतदानेन यावता द्रम्मादि लक्षं स्या १ बी सोपि धू. १बी ई विस्तारा. २ बी क्षणस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy