SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.७७.] सप्तमः सर्गः । ५३९ - आत्मा तस्मिन्सर्वज्ञे देवेवदिष्ट परमात्मैवाधुना मे शरणमिति तद्विप्रयमुत्साहं वाचाविष्कृतवान् ध्यानेन तत्रोत्सहते स्म वेत्यर्थः । परमात्मानं दध्याविति तात्पर्यम् । कीदृक्सन् । कालं कृतान्तमधिकुर्वाणः पूर्वोक्तधर्मध्यानेनाभिभवंस्तेनापरराजीयमानो वा शक्तोशक्तो वा तमुपेक्षमाणो वेत्यर्थः । तथा सुहृज्जने वदमान इन्द्रियो - पघाताभावेन सम्यग्ज्ञानाच्छोकापनोदायानाकुलसंबोधनाच्च विकसितमुखत्वाद्दीप्यमानो वदेन्वा वदन्दीप्यमानो वा दीप्यमान एव वेत्यर्थः । तथा तवेषु परमात्मोक्तेषु पदार्थेषु वदमानश्च ज्ञात्वा वदन् वदितुं जानन्वा वदन्सन् जानन्वा जानन्नेव वेत्यर्थः ॥ कार्ये विवदमानान्स उपावदत मन्त्रिणः । उपावदत सेनान्यमथात्मानमसाधयत् ॥ ४८ ॥ ४८. कार्ये सैन्य व्याघोटनादौ राजकृत्ये विवदमानान्मिथ एकसंमत्यभावेन विमतिपूर्वकं विचित्रं भाषमाणान्विविधं मन्यमानान्वा मन्त्रिणः स वल्लभ उपावदत युष्माकं कुल क्रमागतानां मत्रिणामधुनैवं नानामतिकरणं न युक्तमित्युपसान्त्वयामास । इयन्तं कालं मया मत्पूर्वजैश्च यद्ययं सर्व पोषितास्तत्किमधुना विमतिकरणेन राज्यक्षयार्थमित्युपालभत वेत्यर्थः । तथा सेनान्यं सेनापतिमुपावदत यदि त्वं मम स्वामिन उपकारान्स्मरसि तदा त्वया मदीयमृत्युं कुत्राप्यज्ञापयतेदं सैन्यं शीघ्रमण हिलपुरे नेयमियगजाश्वधनादि मया तुभ्यं प्रसादाद्दत्तमिति रहस्युपालोभयत् । अथानन्तरमात्मानमसाधयत् पण्डितमरणेन दिवं गत इत्यर्थः ॥ कालमधिकुर्वाणः । अत्र “अधेः " [७७ ] इत्यादिनात्मने ॥ १ बी सी डी ई विस्कृत'. २ ई दन्दी ३ एषुव ४ ई वा मानने ५ इ. विविधं भा. ६ सी डी 'दिव्य'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy