SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ वल्लभराजः ] वदमानः सुहृज्जने । तत्त्वेषु वदमानः । परमात्मन्यवदिष्ट । कार्ये विवदमानान् । उपावदत मन्त्रिणः । उपावदत सेनान्यम् । अत्र " दीप्तिज्ञान" [ ७८ ] इत्यादिना दीत्यादिषु क्रमेणात्मने ॥ सैन्यैः प्रवदमानै धिगित्याशु शुकैरिव । सेनानीरुललाटवीं संप्रवदच्छुकाम् ॥ ४९ ॥ ४९. अथ सैन्यैः सह सेनानीराश्वटवीमुलल । किंभूतैः । शोकेन विलापित्वाद् हा धिगिति प्रवदमानैः । कैरिव शुकैरिव । सहोपमे - यम् । सैन्यशोकाक्रन्दश्रवणेन शोकाक्रान्तत्वाद् हा धिगिति प्रवदमानैः शुकैः सहेत्यर्थः । अत एवं किंभूतामटवीं संप्रवदच्छुकां संभूयविलपच्छुकाम् । एतेन वल्लभविरहे पक्षिणामपि शोक उक्तः ॥ 1 3 सैन्यैः प्रवदमानैः । इत्यत्र "व्यक्त" [ ७९] इत्यादिनात्मने ॥ व्यक्तवाचामिति किम् । संप्रवदच्छुकाम् ॥ शुकसारिकादीनामपि व्यक्तैवाक्त्वात्सहोक्ताविच्छन्त्यन्ये । प्रवदमानैः शुकैः ॥ विप्रावदन्त नामात्या अन्ये विप्रावदन्न वा । ५४० मिथोनुवदमानास्तु सेनान्योन्ववदन्वचः ॥ ५० ॥ I ५०. वल्लभेनोपसान्त्वितत्वादुपलब्धत्वाचामात्या न विप्रावदन्त मिथो वचो निषेधेन युगपद्विरुद्धं नोचुरित्यर्थः । एवं न वा न चान्ये नृपसामन्तादयो विप्रावदन् । तुर्विशेषे । किं तु सेनान्यो दण्डनेतुर्वचोमात्या अन्ये चान्ववदन् सेनान्या पूर्वमुक्ते पश्चादवदन् । प्रमाणीचक्रुरित्यर्थः । किंभूताः सन्तः । मिथोनुवदमाना मिथ एकसांमत्येन यथै वदन्ति तथापरे वर्दन्त एकैः पूर्वमुक्तेपरे पश्चाद्वदन्तो वेत्यर्थः ॥ १ एकाका २ सी डी व च किं . ३ ए दीनां व्य° ४ ई 'क्तत्वात्स'. ५ ए वान्ये ६ सी डी 'दन्ति । ए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy