SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५३८ व्याश्रयमहाकाव्ये [वल्लभराजः नान्यदारान्नान्यवादान्ये पवित्राः प्रचक्रिरे । श्रियं तेषु प्रकुर्वाणः श्रेयसां स उपास्कृत ॥४६ ॥ ४६. स वल्लभः श्रेयसां पुण्यानामुपास्कृत तेषु गुणान्तरमादधौ तानि विशिष्टतराणि चक्र इत्यर्थः । कीदृक्सन् । ये पवित्रा यमनियमैः पूतात्मानो मुनयोन्यदारान्परस्त्रियो न प्रचक्रिरे न विनिपातमविभाव्य तानभिजग्मुरित्यर्थः । तथा येन्यवादान्परकथा न प्रचक्रिरे न कथयितुमारेभिरे न प्रकर्षणाकथयन्वेत्यर्थः । तेषु श्रियं प्रकुर्वाणो धर्मार्थ विनियुञ्जानः ॥ शिक्षांचक्रे । अत्र "शकः" [७३] इत्यादिनात्मने ॥ अनुबन्धेन । एदिधिषमाणम् ॥ उपपदेन । व्यजिगीपन्त ॥ अर्थविशेषेण । अङ्गे चिक्रसमानम् । अत्र “प्राग्वत्" [७४] इत्यात्मने ॥ ईक्षांचक्राणः इत्यत्राफलवत्यपि । बिभयांचकृवान् इत्यत्र फलवत्यपि “आमः कृगः" [७५] इत्यात्मनेपदं स्यान्न स्यान्चेति विधिप्रतिषेधावतिदिश्यते । यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं स्यात् । बिभरांचक्रे । बिभरांचकृवान् ॥ कलिमुत्कुर्वाणः । संसारमवचक्रे । पदमुपचक्रे । अन्यदारान्न प्रचक्रिरे । श्रेयसामुपास्कृत । नान्यवादान्प्रचक्रिरे । श्रियं तेषु प्रकुर्वाणः । अत्र “गन्धन" [७६] इत्यादिना गन्धनादिषु क्रमेणात्मने ॥ स कालमधिकुवाणो वदमानः सुहृज्जने । तत्त्वेषु वदमानचावदिष्ट परमात्मनि ॥ ४७ ॥ ४७. स वल्लभः परमात्मनि परमः क्षीणसकलकर्माशत्वाच्छ्रेष्ठो य १ ई. शिष्टानि च . २ ई. र्थः । ये'. ३ ई. 'ति वोभ', Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy