SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.७३.] सप्तमः सर्गः। दैवात्सोस्याथ रोगोभूच्छिक्षांचक्रे न कोपि यम् । यमेदिधिषमाणं च व्यजिगीपन्त नागदाः ॥४३॥ ४३. अथ देवाद्विधिवशादस्य वल्लभस्य स रोगः शीतलिकाख्योभूधं रोगं कोपि वैद्यादिर्न शिक्षांचके । शरीरान्तर्गतत्वेन न ज्ञातुं शक्नुयामितीच्छति स्मेत्यर्थः । यं च रोगमेदिधिषमाणं विवर्धिषमाणमगदा औषधानि न व्यजिगीषन्त । असाध्यो व्याधिरुत्पन्न इत्यर्थः ।। सोङ्गे चिक्रंसमानं तमीक्षांचक्राण आत्मना। । समाधि बिभरांचके विभयांचवान हि ॥ ४४ ॥ ४४. स वल्लभो न हि बिभयांचकृवान्नैव भीतः । कीहक्सन् । अङ्गे चिक्रसमानं स्फायितुकामं तं रोगमात्मनेक्षांचक्रोणो बाधावृद्ध्या ज्ञातवान् । किं तर्हि समाधि चित्तैकाग्र्यं बिभरांचक्रे पोषितवान् । एतेनास्य विद्वत्तोक्ता ॥ बिभरांचकवानस्थैर्यमुत्कुर्वाणः कलिं तदा । संसारं सोवचक्रेथोपचक्रे योगिनां पदम् ॥ ४५ ॥ ४५. तदा स वल्लभः कलिं कलिकालकर्म रागद्वेषादिकं कलह वोत्कुर्वाणः परिजिहीर्षया सदोषं प्रतिपादयन्धैर्य चित्तावष्टम्भं बिभरांचकृवान्पोषितवान् । अथ तथा संसारं रागद्वेषादिदोषात्मकं भवप्रपञ्चमवचक्रे तिरस्कृतवानत एव योगिनां पदमुपचक्रे सिषेवे । योगिनो हि कलिमुत्कुर्वाणा धैर्य बिभ्रति संसारं चावकुर्वते ॥ १ सी. च विजि. डी च वाजि. १ ए तिः । यं. २ ए क्राणा बा. ३ सी डी लहमुत्कु. ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy